पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२७. काव्यलिङ्गालंकारः ६० ] अलंकारचन्द्रिकासहितः। स्वकीयं हृदयं मिरवा निर्गतौ यो पयोधरौ । हृदयस्यान्यदीयस्य भेदने का कृपा तयोः ॥ १२०॥ ... काव्यलिङ्गालंकार ६० समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम्। ... जितोऽसि मन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः॥१२१॥ अत्र कन्दर्पजयोपन्यासो दुष्करविषयत्वात्समर्थनसापेक्षः। तस्य मश्चित्ते- ऽस्ति त्रिलोचन इति स्वान्तःकरणे शिवसंनिधानप्रदर्शनेन समर्थनं काव्यलि- गम् । व्याप्तिधर्मतासापेक्षनैयायिकलिङ्गव्यावर्तनाय काव्यविशेषणम् । इदं चाक्यार्थहेतुकं काव्यलिङ्गम् । पदार्थहेतुकं यथा--- __ भमोद्धूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं . . - हा सोपानपरम्परे गिरिसुताकान्तालयालंकृते । तमः स्थास्यत्यसंशयम् ॥' अत्र शनैःशब्दमहिन्ना राजाग्रे दारिश्चस्थित्यपेक्षया सूर्याने तमोवस्थानं दुःशकमेचेत्यवगतमपि न्यायसाम्यादापद्यते । ननु कैमुति- कन्यायेनेति केनचिदुक्तं तत्रेदं वक्तव्यम् । केनचिदर्थेन तुल्यन्यायखादर्थान्तर- स्थापत्तिरपत्तिरिति तदुक्तलक्षणमयुक्तम् । का वाती सरसीरुहामित्यादिकैमु- त्यन्यायविषयार्थापत्तावव्याप्तेः । कैमुविकन्यायस्य न्यूनार्थविषयत्वेन तुल्यन्या- यखाभाचादापादनाप्रतीतेश्चेति । न चात्र कैमुत्यन्यायतामात्रं न खलंकारखमि- ति युक्तम्, अलंकारतत्त्वाभियुक्तानां प्राचीनानां शून्यहृदयताया अपामरेण संभावयितुमशक्यत्वात् । लोकव्यवहारेऽपि कैमुत्यन्यायस्य चमत्कारिखानुभवेन तेनैव न्यायेन तस्यालंकारतासिद्धेश्च । इत्थंच खदुक्कार्थापत्त्युदाहरणे वक्ष्यमाणः संभावनालंकारो योऽन्यैर्यद्यर्थोत्तौ च कल्पनमिति यद्यर्थातिशयोक्तित्वेनोक्तः । यद्यातिशयोक्तावापाद्यापादकयोविपरीतार्थ विश्रान्तलम् , इह लापादकस्य सि- द्धलमापायस्य संभाव्यमानलमिति वैचित्र्यं तु तदवान्तरमेदतायाः साधकं न तु तद्बहिर्भूतताया इति न तत्राव्याप्तिशङ्कापीसलं विस्तरेण ॥ १२० ॥ इत्यर्था- पत्त्यलंकारः ॥ ५९॥ ..... समर्थनीयस्येति ॥ समर्थनापेक्षस्थार्थस्य समर्थनं काव्यलिशमलंकारः । अर्थान्तरन्यासवारणाय समर्थनापेक्षस्यति । यदाखान्तरन्यासप्रकरणे वक्ष्यमा परीत्या सामान्यविशेषभावातिरिक्तत्वं निवेश्यते तदा नोपादेयमेवैतदितिबोध्यम। दष्करविषयलाइष्करविषयरूपलात् । समर्थनापेक्षस्येत्यनन्तरमर्थस्येति शेषः॥ नैयायिकेति ॥ नैयायिकाभिमतलिङ्गस्य लक्ष्यतावारणायेत्यर्थः ॥ भस्मेति ।। भस्मोदलनेति संबोधनम् । शुभमस्तिति शेषः । गिरिसुताकान्तस्य शिवस्यालयः प्रासादस्तदलंकारभूते सोपानपत्रे इत्यपि संबोधनम् । हेति दैन्ये । विभुना प्रभुणा शिवेन । युष्माकं या सपर्या पूजा. तत्सुखस्यालोकः प्रकाशस्तदुच्छेदके