पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"" " ATRAJSATASBon लेशालंकारः ७२] अलंकारचन्द्रिकासहिंतः। १४५ त्वस्य गुणस्य पक्षरबन्धहेतुतया दोषत्वं कल्पितम् । न चात्र व्याजस्तुतिरा- शङ्कनीया। नह्यत्र विहगान्तराणां स्तुतिव्याजेन निन्दायां शुकस्य निन्दा- ब्याजेन स्तुतौ च तात्पर्यम् । किंतु पुत्रदर्शनोत्कण्ठितस्य दोषगुणयोर्गुणदोष- स्वाभिमान एवान श्लोके निबद्धः। यथावा- सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्व त्रैव जनापवादचकिता जीवन्ति दुःखं सदा ।। अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥ दण्डी त्वन्नोदाजहार--- 'युवैष गुणवान्नाजा योग्यस्ते पतिरूर्जितः। रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि । चपलो निर्दयश्चासौ जनः किं तेन मे सखि । आगःप्रमार्जनायैव चाटवो येन शिक्षिताः ॥' अनाद्यश्लोके राज्ञो वीर्योत्कर्षस्तुतिः। कन्याया निरन्तरसंभोगनिविर्ति- पया दोषत्वेन प्रतिभासतामित्यभिप्रेत्य विदग्धया सख्या राजप्रकोपपरिजि- हीर्षया स एव दोषो गुणत्वेन वर्णितः । उत्तरश्लोके सखीभिरुपदिष्टं मानं कर्तुमशक्तयापि तदग्रतो मानपरिग्रहानुगुण्यं प्रतिज्ञाय तदनिर्वाहमाशङ्कमा- नया सखीनामुपहासं परिजिहीर्षन्त्या नायिकया नायकस्य चाटुकारितागुण एव दोषत्वेन वर्णितः । नचायश्लोके स्तुतिनिन्दापर्यवसायिनी द्वितीयश्लोके निन्दा स्तुतिपर्यवसायिनीति व्याजस्तुतिराशङ्कनीया । राजप्रकोपादिपरिहारा- र्थमिह निन्दास्तुत्योरन्याविदिततया लेशत एवोद्धाटनेन ततो विशेषादिति । वस्तुतस्त्विह ब्याजस्तुतिसद्भावेऽपि न दोषः । न तावता लेशमात्रस्य ब्या- जस्तुत्यन्तर्भावः प्रसज्यते। तदसंकीर्णयोरपि लेशोदाहरणयोर्दर्शितत्वात् । नापि व्याजस्ततिमात्रस्य लेशान्तीचः प्रसज्यते। भिन्नविषयव्याजस्तुत्युदा- m anerimentarmun...- ....ina ....... . . ..... ..... .... निन्दाव्याजेन स्तुदी चेत्यन्वयः ॥ सन्त इति ॥ सच्चरितस्योदयो वृद्धिस्तधस- निनस्तत्पराः । प्रादुर्भवद्यन्त्रणं स्वेच्छाचरणनिरोधो येषां ते । सर्वत्रैव विषये ! दुःखामिति क्रियाविशेषणम् । अव्युत्पन्नमतिरनिपुणमतिः। सता समीचीनेन । कृतेनाचरणेन । प्राकृतो नीचः ॥ युवैष इति वरार्थिनी कन्यकां प्रति सखींव- चनम्।। चपल इत्यादि च नायिकायाः सखी प्रति। उत्सेक इति पाठेऽप्युत्कर्ष एवार्थः । कन्याया दोषत्वेन भासतामित्यन्वयः। निवर्तितुमिच्छा निविषतिषा तद्रूपदोषत्वेनेत्यर्थः । निर्विवित्सोरिति पाठे राज्ञो विशेषणम् । कुतस्तर्हि गुणत्वेन वर्णनं तत्राह-राजप्रकोपेति। अन्येनाविदितं यथा स्यादिति क्रियाविशेषणम्।। लेशत एवेति ॥ तदुक्तं दण्डिनैव-'लेशमेके विदुनिन्दां स्तुतिं वा लेशतः कृताम्' इति । लेशमात्रस्येति कृत्स्नार्थकम् । उदाहरणयोरखिलेष्वित्याद्योः । १'निविवित्सोर्दोषत्वेन'.