पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- A HAMA कुवलयानन्दः। [मुद्रालंकारः ७३ हरणेषु 'कस्त्वं वानर रामराजभवने लेखार्थसंवाहको यद्वक्त्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटून्मृषा' इत्यादिषु दोषगुणीकरणस्य गुणदोषीकरणस्य चा- भावात् । तत्रान्यगुणदोषाभ्यामन्यत्र गुणदोषयोः प्रतीतेः॥ विषयैक्येऽपि 'इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारि- र्दिकागानां मदजलमषीभाञ्जि गण्डस्थलानि । अद्याप्युर्वीवलयतिलकश्यामलिनानुलिप्ता- न्याभासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥' इत्याधुदाहरणेषु लेशास्पर्शनात् । तन्न हीन्दुलक्ष्मादीनां धवलीकरणाभा- वदोष एव गुणत्वेन न पर्यवस्थति किंतु परिसंख्यारूपेण ततोऽन्यत्सर्व धव- लितमित्यन्यो गुणः प्रतीयते। क्वचियाजस्तुत्युदाहरणे गुणदोषीकरणसत्त्वे- ऽपि स्तुतेर्विषयान्तरमपि दृश्यते । यथा- सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे बुधैः । नारयो लेभिरे पृष्ठं न वक्षः परयोषितः॥ अनहि वाच्यया निन्दया परिसंख्यारूपेण ततोऽन्यत्सर्वमर्थिनामभिमतं दीनारादि दीयते इति स्तुत्यन्तरमपि प्रतीयते । एवंच येषूदाहरणेषु 'कस्ते शौर्यसदो योद्ध'मित्यादिषु गुणदोषादिषु गुणदोषीकरणादिकमेव व्याजस्तुति- रूपतयावतिष्ठते, तत्र लेशव्याजस्तुत्योः संकरोऽस्तु । इत्थमेव हि व्याजस्तुत्य- प्रस्तुतप्रशंसयोरपि प्रासंकरो वर्णितः ॥ १३८॥ m mana मुद्रालंकारः७३ सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः । नितम्बगुर्वी तरुणी दृग्युग्मविपुला च सा ॥ १३९ ॥ भिन्नविषयेति। अन्यनिन्दयान्यस्य स्तुतिरन्यस्तुत्यान्यनिन्देत्येवमादिरूपेत्यर्थः। ननु तथाप्येकविषया व्याजस्तुतिन लेशाद्भिद्यतेल्याशझ्याह-विषयैक्येऽपीतिः ॥ लेशास्पर्शनादित्खनेतनेनान्वयः ॥ इन्दोरिति ॥ हे उर्वीक्लयतिलकरूप राजन् , संदीपर्यशोभिः किं धवलितं तददायतोऽद्यापि इन्दुलक्ष्मादीवि श्यामलिना श्याम- वर्णेनानुलिप्तान्यामासन्ते इत्यन्वयः । लक्ष्म लाञ्छनम् । दिनागानां दिग्गजानां मदजलमेव मषी तद्भाञ्जि तयुक्तानि ॥ परिसंख्येति ॥ एतान्येव श्यामा- नीत्येवंरूपेत्यर्थः । विषयान्तरं दोषीकृताद्भिनं गुणरूपमालम्बनम् ॥ सर्वदेति॥ अरयः पृष्ठमर्थात्तव न लेभिरेन प्राप्तवन्तः पलायनाभावात् । दीनारः परिमाणवि- शेषचरिच्छिन्ना सुवर्णमुद्रा । एवंच लेशव्याजस्तुत्योरसंकीर्णविषयसत्त्वे च गुणदोषी- करणी कामति । आदिपदेन दोषगुणीकरणसंभवः । येवित्युपक्रमात्तत्रेति पाठो युक्ततरः । अत्रेत्यपि युक्त एव । इदमोऽपि यच्छब्दार्थपरामर्शकलात् ॥१३८॥ इति लेशालंकारः ॥ ७२ ॥ सूच्याथैति । सूचनीयस्यार्थस्येत्यर्थः । मुद्रेति लक्ष्यनिर्देशः । दृग्युग्म रामचन्द्रमवने