पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उन्मीलित-विशेषालंकारौ ८११८२] अलंकारचन्द्रिकासहितः । १५३ मलिकामालभारिण्य इत्यादिषु तु सामान्यालंकार इत्याहुः । तन्मते पद्माकर- प्रविष्टानामित्यादौ भेदाध्यवसायेऽपि व्यावर्तकास्फुरणेनालंकारान्तरेण भा- व्यम् । सामान्यालंकारान्तरभेदेन वा पूर्वस्मिन्मते स्वरूपतिरोधानेऽलंकारा- न्तरेण भाव्यं मीलितावान्तरभेदेन चा ॥ १४७ ॥ उन्मीलित-विशेषालंकारौ ८१ । ८२ भेदवैशिष्ट्ययोः स्फूर्तावुन्मीलितविशेषकौ । हिमाद्रिं त्वद्यशो मग्नं सुराः शीतेन जानते ॥ लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च ॥ १४८॥ मीलितन्यायेन भेदानध्यवसाये प्राक्षे कुतोऽपि हेतोéदस्फूतौ मीलितप्र. तिद्धयन्मीलितम् । तथा सामान्यरीत्या विशेषास्फुरणे प्राप्ते कुतश्चित्कार- णाद्विशेषस्फूतौं तत्प्रतिद्वन्द्वी विशेषकः । क्रमेणोदाहरणद्वयम् । तद्गुणरीत्यापि भेदानध्यवसायमालावुन्मीलितं दृश्यते । यथा- वाक्यरूपाः। इति प्रकारेण मृगदृशामङ्गके लीलया खतः स्वभावात्स्फुरितं प्रकटी- भूतं तत्तस्मादत्राशके कृतपदः कृतस्थितिः ॥ भेदाध्यवसायेऽपीति । मु- खपमयोर्भेदावभासेऽपीत्यर्थः । ब्यावर्तकास्फुरणेन हेतुना ॥अलंकारान्तरेणे- ति ॥ स्वरूपाविरोधानेन मीलितासंभवाद्भेदातिरोधानेन च सामान्यस्याप्यसंभ- वादिति भावः ॥सामान्येति ॥ तथाच गुणसाम्याद्विशेषाग्रह इति सामान्या- लंकारसामान्यलक्षणम् । विशेषाग्रहश्च क्वचिद्भेदे गृह्यमाणे क्वचिच्चागृह्यमाण इत्याद्यप्रकारान्तरगतिरत्र तन्मते स्यादिति भावः । अवान्तरभेदेन वेत्सनन्तरं भावमित्वनुषज्यते ॥ पूर्वसिन्निति ॥ मीलितं यदि सादृश्यादित्यादिपूर्वोक्त- चन्द्रालोककृन्मत इत्यर्थः। स्वरूपतिरोधानेऽपाङ्गतरल इत्यादिखरूपतिरोधान- स्थले । अलंकारान्तरेणेत्यादि ॥ स्वरूपतो ज्ञायमाने साइझ्या दामहणं मीलितमित्सङ्गीकारे प्रथमः पक्षः । साश्याइँदाग्रहणमित्येतावन्मात्रमीलितल- क्षणाङ्गीकारेण द्वितीय इति भावः ॥१४७ ॥ इति सामान्यालंकारः ॥ ८० ॥ मेदेति ॥ वैशिष्ट्यं वैजात्यम् । उन्मीलितं विशेषकश्च क्रमेणालंकारौ। मनं मेदाग्रहात्तदन्तर्गतम् ॥ लक्षितानीति ॥ संकुचितत्वादिति भावः । सामान्य- रीत्या सामान्यालंकारन्यायेन । एवंच. "वेत्रलचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि । भृङ्गाः सहेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि ।' इत्यपि विशेषकोदाहरणं बोध्यम् । यत्त्वनुमानालंकारेणैव गतार्थलानानयोरलं- कारान्तरखमिति । तदयुक्तम् । उदाहृतस्थले मेदविशेषस्फूत्योर्विशेषदर्शनहेतुक- प्रत्यक्षरूपखात् । अथापि स्वकपोलकल्पिपरिभाषयानुमानालंकारतां ब्रूषे तथापि । सादृश्यमहिना प्रागनवगतयोर्मेदवैजात्ययोः स्फुरणात्मना विशेषाकारेण मीलित- सामान्यप्रतिद्वन्द्विना युफमेवालंकारान्तरत्वम् । अतद्गुणावज्ञयोरिव विशेषोक्त्य- . कुव० १५