पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विवृतोक्त्यलंकारः ८८] अलंकारचन्द्रिकासहितः। १५९ प्रत्याख्यानं सुराणामिति भयशमनच्छमना कारयित्वा . ... ...... यस्मै लक्ष्मीमदाद्वः स दहतु दुरितं मन्थमुग्धः पयोधिः ॥" इदं परवञ्चनाय गुप्लाविष्करणम् । पागुप्लाविष्करणं यथा- दृष्ट्या केशव गोपरागहतया किंचिन्न दृष्टं मया तेनेह स्खलितासि नाथ पतितां किंनाम नालम्बसे। एकस्त्वं विषमेखिन्नमनसा सर्वाबलानां गति- गोप्यैवं गदितः सलेशमवतागोष्ठे हस्विश्चिरम् ॥ अन्न कृष्णस्य पुरतो विषमे परिस्खलनमभिहितवत्यास्तं कामयमानाया गोपिकाया वचने विषमपथि स्खलनपतनत्राणसंप्रार्थनरूपेण झटिति प्रतीय- मानेनार्थेन गुप्तं विवक्षितमर्थान्तरं सलेशं ससूचनमित्यनेनाविष्कृतम् । एवं नैषधादिषु 'चेतो नलं कामयते मदीयम्' इति दमयन्तीवाक्यादिकमप्युदाहर- णम् । इदं शब्दशक्तिकोडीकृतगुप्ताविष्करणम् । अर्थशक्तिमूलगुप्तार्थाविष्क- रणं यथा- गच्छाम्यच्युत दर्शनेन भवतः किं तृसिस्त्पद्यते किंचैवं बिजनस्थयोहतजनः संभावयत्यन्यथा । इत्यामन्त्रणभङ्गिसूचितवृथावस्थामखेदालसा- माश्लिप्यन्पुलकोल्कराञ्चिततनुर्गोपी हरिः पातु वः ॥ . अत्र गच्छाम्यच्युतेत्यामश्रणेन त्वया रन्तुं कामेच्छया स्थितं तन्न लब्धमि- त्यर्थशक्तिलभ्यं वस्तु तृतीयपादेनाविष्कृतम् । सर्वमेतत्कविनिबद्धवक्तृगुप्ता- विष्करणोदाहरणम्। प्रत्याख्यानं वर्जनं कारयित्वा मन्थो भन्थनं तेन मुग्धः पयोधिः यसै लक्ष्मी- मदात्स वो दुरितं दहलित्यन्वयः ॥ परेति ॥ परवञ्चनाय गुप्तस्य आविष्करण- मित्यर्थः ॥ पेति ।। लज्जया गुप्तस्येत्यर्थः ॥ दृष्ट्येति ॥ गोपे खयि यो राग आसक्तिस्तद्धतयापहृतया गवां परागैर्धूलिभिर्व्याप्तया च । गोपेति संबोधनं वा । किंचित्सम विषमं युक्तायुक्तं च । इह खयि भूमौ चा पत्युर्भावः पतिता तां पंतनं प्राप्तां च । विषमेषुः पञ्चशरस्तेन खिन्नमनसां विषमेघु संकटेषु खिन्नमनसां च । अबलानां स्त्रीणां बलरहितानां च । सलेशं ससूचनं । गोष्ठं गोस्थानम्॥ चेतो नलमिति ॥ लकां न अयते म गच्छतीत्यर्थे नलं कामयते इच्छतीत्यर्थों गुप्तस्त- दाविष्करणं च हीणा हृष्टा चेत्यनेनेति बोध्यम् ॥शब्दशक्तीति ॥ शब्दश्लेषवशेने- त्यर्थः । क्रोडीकृतः संगृहीतः॥ गच्छामीति ॥ अच्युत, मद्विषये अस्खलितेति गुप्तोऽर्थः । चिरकालं खद्दर्शनेनापि न तृप्तिरित्यर्थेन दर्शनेन न तृप्तिरपि तु सं- भोगेनेत्यर्थों गुप्तः। विजनस्थयोरेकान्तगतयो। हतश्चासौ जनश्च अन्यथा र. सर्थ स्थिताविति संभावयति । तेन द्वयोरकीर्तिर्जातैव वृथैवात्मानं वश्चयाव इति गुप्तोऽर्थः। आमन्त्रणस्याच्युतेत्यादेर्भया स्चनया सूचितो यो वृथावस्थानखेदस्ते- नालसाम् ॥ कविनिबद्धेति ॥ कविनिबद्धेन वा गुप्तस्येत्यर्थः । सुष्टु त्व-