पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावोदयालंकारः१०५] अलंकारचन्द्रिकासहितः। .. १७१ . तिष्ठन्ति स्तिमिताः प्ररूढपुलकास्ते विस्मृतोपक्रमा- स्तासामुत्तरलैः स्तनैरतितरां लोलैरपाझैरपि ॥ .. ... ... . अन्न प्रविषयरतिभावस्य शङ्गाररसाभासोऽजम । यथावा- त्वयि लोचनगोचरं गते सफलं जन्म मृसिंह भूपते । अंजनिष्ट ममेति सादरं युधि विज्ञापयति द्विषां गणः॥ अन कवेः प्रभुविषयस्य रतिभावस्य तद्विषयद्विषद्गणरतिरूपो भावाभा- सोऽङ्गम् । समाहितालंकारः १०४ समाहितं यथा- पश्यामः किमियं प्रपद्यत इति स्थैर्य मयालम्बितं . किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । इत्यन्योन्यविलक्ष्यदृष्टिचतुरे तस्मिन्नवस्थान्तरे । सव्याज हसितं मया कृतिहरो मुक्तस्तु बाष्पस्खया ।। अन्न शृङ्गारस्य कोपशान्तिरङ्गम् ।। भावोदयालंकारः १०५ भावोदयो यथा--- तदद्य विश्रम्य दयालुरेधि मे दिनं निनीपामि भवद्विलोकिनी। अदर्शि पादेन विलिख्य पत्रिणा तवैव रूपेण समः स मत्रियः । अन्न नलं प्रति दमयन्त्या औत्सुक्यरूपभावस्योदयः शृङ्गाररसस्थानम् । प्रत्यर्थिनः शत्रवो वसुन्धरेशा भूपास्तेषां तरुणीविलुण्ठितुं याताः किराता भिल्लाः तासां तरुणीनामुत्तरलैरतिचपलैः स्तनैरतितरामतिशयेन लोलैश्चञ्चलैरपाङ्गैर्नेत्रप्रा- न्तैश्च तैः स्तिमिताः स्तब्धाः प्रोदतरोमाच्चा विस्मृत उपक्रमो लुण्ठनरूपो यैस्ता- दृशास्तिष्ठन्तीत्यन्वयः। अत्र शृङ्गारस्याननुरक्तराजवनिताविषयत्वादनौचित्येन प्रवृत्तिरित्याभासरूपलम् ॥ त्वयीति ॥ अजनिष्ट अभूत् । युधि संग्रामे ॥ तद्विषयेति ॥ प्रभुविषया द्विषद्गणस्य या रतिवद्रूप इत्यर्थः। अत्र शत्रुविषय- कत्वरूपानौचित्येन प्रवर्तितत्वाद्भावस्याभासत्वम् ॥ पश्याम इति ॥ नायकस्य खमित्रं प्रति नायिकावृत्तान्तोक्तिः। मयि तूष्णीभूते किमियं प्रपद्यते कुरुते तत्प- श्याम इत्यभिप्रायेण मया स्थैर्य मौनरूपमालम्बितमजीकृतम् । पश्याम इति बहुवचनं सखीसमानाभिप्रायम् । एवं तयाप्ययं खलु शठो मां किमिति नालप- ति भाषत इति कोप आश्रितः इत्यन्योन्यं परस्परं विलक्ष्या लक्ष्यरहिता या दृष्टिस्तत्र चतुरे । सव्या निमित्तान्तरव्याजसहितम् ॥ तदिति ॥ एधि भव । निनीषामि नेतुमिच्छामि । यतस्तवैव रूपेण समास