पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
[उपमालङ्कारः १
कुवलयानन्दः ।

पितसादृश्यप्रयोजकसौन्दर्यवदभिन्नं वदनमित्यन्वयबोधः। अरविन्दसुन्दरमिति समासे त्वरविन्दपदेनारविन्दनिरूपितस्रादृश्यप्रयोजकं लक्ष्यते। तच्चाभेदेन पदार्थैकदेशे सौन्दर्येऽन्वेति । एवंचारविन्दनिरूपितसादृश्यप्रयोजकाभिन्नसौन्दर्यवदभिन्नं वदनमित्यन्वयबोधः । एकदेशान्वयायोगादविन्दपदमेव लक्षणया सर्वार्थबोधकं सुन्दरपदं तु तात्पर्यग्राहकमित्येके । अरविन्दमिव बदनमित्यत्रारविन्दनिरूपित- सादृश्यवद्वदनमिति बोधः । सादृश्यस्य निपातार्थतया भेदेन नामार्थान्वये वाधका- भावात्। अरविन्दमिव भातीत्यत्र भातेर्ज्ञानार्थकत्वेऽरविन्दपदस्यारविन्दनिरूपित- सादृश्यप्रकारकज्ञानविषये लक्षणा । तस्य चाभेदेन मुखादावन्वयः । शेषं तात्प- र्याग्रहकम् । पूर्वोक्तदिशा वा सादृश्यस्यैव प्रकारितासंसर्गेण धात्वर्थेऽन्वयः। अ- त्रैव सौन्दर्येणेति धर्मोपादाने तृतीयार्थस्य प्रयोज्यत्वस्य सादृश्येऽन्वयात्सौन्दर्य- प्रयोज्यारविन्दनिरूपितसादृश्यप्रकारकज्ञानविषय इति बोधः । आद्यकल्पे त्वरवि न्दपदमेव सर्वार्थबोधकमितरतात्पर्यग्रहकमिति ध्येयम् । इयंच सादृश्यस्य पदार्थान्तरत्वमते शाब्दबोधरीतिरुपदर्शिता । तस्य समानधर्मरूपत्वे तु चन्द्र इव मुखमित्यादौ चन्द्रवृत्तिधर्मवत्मुखमिति बोधः। अत्रैवाह्लादकमिति समानधर्मोपादाने इवार्थस्य धर्मस्याह्लदकत्वे पदार्थैकदेशेऽन्वयः । तदसहिष्णुतायां तु चन्द्रनिष्ठा- ह्लादकत्ववति आह्लादकपदस्य लक्षणा । चन्द्रादिपदं तात्पर्यग्राहकम् । चन्द्रसह- शमित्यत्राप्येकदेशे सादृश्ये चन्द्रान्वयः ससंबन्धिकत्वात्.। सद्दशपदं वा चन्द्र- सादृश्यविशिष्टे लाक्षणिकम् । अत्रैवाह्लादकत्वेनेत्युक्तावमेदस्तृतीयर्थस्तस्य च सद्द- शपदर्थैकदेशे धर्मेऽन्वयः। तथा चाह्लादकत्वाभिचन्द्रव्रुत्तिधर्मवदभिन्नं मुखमिति बोधः । सदृशपदमेव वा सर्वार्थबोधकमितरतात्पर्यग्राहकमित्येवंबिधान्वयसर- णिश्रेणयस्तत्र तत्र शब्दव्युत्पत्तिनिपुणैरनुसंधेयेत्यलं प्रसक्तानुप्रसक्तपरिचिन्त- नैन । पूर्णोपमेतीत्यनन्तरमालंकारिकैरिति पूरणीयम् । तत्त्वं च विशेषत उपात्त- शब्दशक्तिप्रतिपादितोपमानोपमेयकत्वे सति विशेषतः शब्दोपात्तसमानधर्मकत्वे च सति विशेषतः स्वनिरूढशब्दगम्यत्वं स्वपदमुपमापरम् । उपमानलुप्तायामपि लक्षणयोपमानप्रतिपत्तेस्तद्वारणाय शक्तिति । उपमेयलुप्तायां स्मरवधूयन्तीत्यादा वात्मन उपमेयस्याध्याहृतेनात्मानमिति शब्देन बोधनादुपातेति शब्दविशेषणम् । एवमपि तन्वीत्यनेनात्रोपमेयस्य काव्यस्य सदृशं न दृश्यत इत्येवंविधायां लुप्तो- पमायामुपमानस्य च सदृशपदोपात्तत्त्राद्विशेषत इति उपमेयोपमानतावच्छेदक- रूपेणेत्यर्थः । धर्मलुप्तायामप्युपमावाचकेन सामान्यतो धर्मस्योपात्तत्वाद्विशेषत इति । उपमाप्रयोजकतावच्छेकरूपेणेत्यर्थः । वाचकलुप्तायामपि लक्षणयोपमा- नादिपदेनोपमावगमातद्वारणाय विशेषत:स्वनिरुढेति। उपमायां च निरुढा"इव वद्वायधाशब्दा" इत्याध्यमियुक्तोक्तिसंग्रुहीता इवादय:। अत्र निपातरुपस्येवादेरुपसर्गवध्योतकत्वमेव। कतमन्यथा "शरैरुस्रैरिवोदीच्यानुद्धरिष्यन्रसानिव" इत्यदावुस्रादिपदोत्तरत्रुतीयादिसङ्गति:।उस्रादेरुद्धरणक्रियां प्रत्यकरणत्वात्, इवार्थे सादृश्यान्वयित्वेन करणीभूतशरविशेषणत्वाभावाच्च द्योतकत्वे तूस्त्रादिपदस्योसद्