पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Hindi १७६ कुवलयानन्दः । [श्रुत्यलंकारः ११४ श्रुत्यलंकारः ११४ तन्त्र श्रुतिर्यथा- स्वं हि नान्नैव वरदो नाधत्से वरमुद्रिकाम् । नहि श्रुतिप्रसिद्धार्थे लिङ्गमाद्रियते बुधैः ॥ अन्न करिगिरीश्वरस्य वरद इत्यभिधानश्रुत्या सर्वाभिलषितदातृत्वं सम- र्थितम् । लिङ्गं यथा--- विदितं वो यथा स्वार्थी न मे काश्चित्प्रवृत्तयः । ननु मूर्तिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः॥ अन शिवस्य श्रुतिप्रसिद्धसर्वोपकारकपृथिव्याद्यष्टमूर्तिपरिग्रहलिङ्गेन तव्य- बत्तीनां लोकानुग्रहकप्रयोजनत्वं समर्थितम् । लिङ्गस्य मूलभूतवेदानुमापक तया वैदिकशब्दप्रमाण एवान्तर्भावः। एवं लौकिकलिङ्गानामपि लौकिक- शब्दोन्नायकतया लौकिकशब्दप्रमाण एवान्तर्भावः । अतः। लोललतया विपक्षदिगुपन्यासे विधूतं शिर- स्तद्वृत्तान्तपरीक्षणे कृतनमस्कारो विलक्ष्यस्थितः। ईषसाम्रकपोलकान्तिनि मुखे दृश्यानतः पादयो- रुत्सृष्टो गुरुसंनिधावपि विधिाभ्यां न कालोचितः ॥ इत्यादि चेष्टारूपं प्रमाणान्सरं नाशकनीयम् । कचिच्छब्दप्रमाणकल्पनया चमत्कारो यथा-- किमसुभिग्लपितैर्जड मन्यसे मयि निमजतु भीमसुतामनः । मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधस्मरः ॥ । - अत्र म्रियमाणानां मनश्चन्द्रं प्रविशतीत्येतदार्थकायाः श्रुतेर्नलमुखचन्द्र- . विषयत्वे कल्पिते तथा व्याख्यातृसरवाक्यं प्रमाणतयोपन्यस्तम् । त्वं हीति ॥ वरमुद्रिकां वरमुद्रां नाधत्से न धास्यसि । श्रुतिर्वरदसंज्ञारूपा लिङ्गं गमकम् । पक्षे श्रुत्या तृतीयादिरूपया प्रकर्षेण शीघ्रं सिद्धेऽर्थे अङ्गाङ्गिभावे सति लिङ्गमर्थप्रकाशनसामर्थ्यरूपमाद्रियते । यथा 'ऐन्या गार्हपत्यमुपतिष्ठते' इति श्रुल्ला गार्हपत्योपस्थाने विनियुक्तस्य मन्त्रस्येन्द्रप्रकाशनसामर्थ्यरूपेण लिङ्गे- नेन्द्रोपस्थाने विनियोगो नाद्रियत इत्यर्थः। करिगिरीश्वरः हस्तिगिरीश्वरः ।। विदितमिति ॥ इत्थंभूतः परार्थैकप्रवृत्तिकः । अत इत्यस्य चेष्टारूपं प्रमाणान्तरं नाशङ्कनीयमित्यप्रेतनेनान्वयः ॥ लोलदिति ॥ गुरूणां संनिधावपि द्वाभ्यां नायकाभ्यां समयोचितो विधि!त्सृष्टः । यथा लोलझूलतया नायिकया विपक्षस्य . -- सपल्यादेर्दिश उपन्यासे तत्सकाशादागतोऽसीति सचने कृते नायकेन नेति सूचनाय शिरो. विधूतं संचालितम् । ततस्तद्वृत्तान्तपरीक्षणे नायिकया कृते .सत्यकृतनमस्कारो विलक्ष्य एव स्थितः। तत ईषत्ताम्रा कपोककान्तिर्यस्य तादृशे नायिकाया मुख्खे कोपातिशयानाते सति तत्पादयोईष्टिपातेनैवानतः प्रणत इति ॥ किमसुभिरिति ।। व्याख्यातं प्राक् ॥ तथेति ॥ नलमुखचन्द्र-