पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अङ्गाङ्गिभावसंकरः १२०] अलंकारचन्द्रिकासहितः । १७९ - नीरक्षीरन्यायेनास्फुटमेदालंकारमेलने संकरः । स चाङ्गाङ्गिभावेन समप्रा- धान्येन संदेहेन एकवाचकानप्रवेशेन चतुर्विधः । एवं नृसिंहाकाराः पञ्चालंकाराः। ___ अलंकारसंसृष्टिः ११९ तत्रालंकारसंसृष्टिर्यथा- __कुसुमसौरभलोभपरिभ्रमझमरसंभ्रमसंभृतशोभया । चलितया विदधे कलमेखलाकलकलोलकलोलशान्यया ॥ अन शब्दालंकारानुप्रासयमकयोः संसृष्टिः। . लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः। असत्पुरुषसेवेव दृष्टिर्निरफलतां गता ॥ .. :: - अनोस्प्रेक्षयोरुपमायाश्चेत्यर्थालंकाराणां संसृष्टिः। आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य। .. पादाम्बुजं भवतु मे विजयाय मञ्ज- मञ्जीरसिञ्जितमनोहरमम्बिकायाः॥ अत्र शब्दार्थालंकारयोरनुप्रासोपमयोः संसृष्टिः । ___ अङ्गाङ्गिभावसंकरालंकारः १२० अङ्गाङ्गिभावसंकरो यथा- .. तलेष्ववेपन्त महीरहाणां छायास्तदा मारुतकम्पितानाम् । शशाङ्कसिंहेन तमोगजानां लूनाकृतीनामिव गात्रखण्डाः ॥ - कुसुमेति ॥ माघे ऋतुवर्णने पद्यमिदम् । अन्यया कयापि वनितया चलि- तया कलखरो भेखलायाः काश्याः कलकलः कोलाहलो विदधे । किंभूतया। कुसुमसौरभलोमेन परिभ्रमतां भ्रमराणां संभ्रमेण खराविशेषेण संभृता समृद्धा - शोभा यस्यास्तथा अलका लोला यस्यां तादृशी दृग्यस्यास्तथाभूतयेति ॥ आन- न्देति ॥ आनन्देन मन्थरं यथा स्यात्तथा । पुरन्दरेणेन्द्रेण मुक्तमर्पितं मात्वं यत्र तादृशं महिषासुरस्य मौलौ मस्तके हठेन निहितं मञ्जु मनोज्ञ मञ्जीरस्य नू- पुरस्य सिन्जितं रणितं यत्र तादृशमनोरममम्बिकायाः पादाम्बुजमम्बुजसदृशं चरणं मोऽस्माकं विजयाय भवत्वित्यन्वयः। अत्र पादाम्बुजम्मित्युपमित्तसमास एव नतु मयूरव्यंसकादिवत्पाद एवाम्बुजमिति । तथा सत्यम्बुजप्राधान्ये मजी- रसिमितान्वयायोगादित्युपमैव न रूपकमिति ज्ञेयम् । इति संसृष्टिः ॥ ... तलेष्विति ॥ तदा मारतकम्पितानां महीरुहाणां तलेषु छाया अवेपन्त क- म्पमाना आसन् । तत्रोत्प्रेक्षते । शशाङ्करूपेण सिंहेन छिन्नाकृतीनां तमोलक्षण- गजानां शरीरखण्डा इवेति । 'गुणानां च इति तायाधिकरणसूत्रम् । अस्यार्थः।