पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ कुवलयानन्दः । [संकरसंकरालंकारः १२४ विधुकरपरिरम्भादात्तनिष्यन्दपूर्णैः ___ शशिदृषदुपक्लौरालवालस्तरूणाम् । . .. विफलितजलसेकप्रक्रियागौरवेण - व्यरचि स हृतचित्तस्तत्र भैमीवनेन ॥ अत्र हि प्रतिपाद्यमानोऽर्थः समृद्धिमद्वस्तुवर्णनमुदात्तमिति लक्षणानुसा- राददात्तालंकाररूपः असंबन्धे संबन्धकथनमतिशयोक्तिरिति लक्षणादतिश- योक्तिश्च । नच सर्वत्रोदात्तस्यासंबन्धे संबन्धवाचनरूपत्वं निर्णीतमिति न विविक्तालंकारद्वयलक्षणसमावेशोऽस्तीति वाच्यम् । दिव्यलोकगतसंपत्सम द्धिवर्णनादिष्वतिशयास्पृष्टस्योदात्तस्य शौयौदार्यदारियादिविषयवर्णनेदात्ता- स्पृष्टाया अतिशयोक्तेश्च परस्परविविक्ततया विश्रान्तेः । तयोहार्थवशसंप- समावेशयो ङ्गाङ्गिभावः । एकेनापरस्यानुत्थापनात्वातघ्यपारतच्च्यविशे- पादर्शनाच्च । नापि समप्राधान्यम् । यैः शब्दैरिह संबन्धि वस्तु प्रतिपाद्यते तैरेव तस्यैव वस्तुनोऽसंबन्धे संबन्धरूपस्य प्रतिपाद्यमानतया भिन्नप्रतिपाद- कशब्दव्यवस्थितार्थभेदाभावात् । नापि संदेहसंकरः। एकालंकारकोळ्यांत- दन्यालंकारकोटिप्रतिक्षेपाभावात् । तस्मादिहोदात्तातिशयोक्त्योरेकवाचकानु- प्रवेशलक्षणः संकरः। परका ... ... ....... संकरसंकरालंकारः १२४ . ___ चित्संकराणामपि संकरो दृश्यते । यथा-


मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताः

- प्रातः प्राङ्गणसीन्नि मन्थरचलद्धालाडिलाक्षारुणा। दुरादाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥ - अत्र तावद्विदुषां संपत्समृद्धिवर्णनमुदात्तालंकारस्तन्मूलको बालाङ्ग्रिलाक्षा- रुणा इस्यत्र तद्गुणालंकारस्तत्रैव वक्ष्यमाणभ्रान्त्युपपादकः पदार्थहेतुककाध्य- विधुकरेति ॥ स हंसस्तत्र भैमीवनेन दमयन्या उद्यानेन हृतचित्तो व्यरचि कृतः । कथंभूतेन । चन्द्रकिरणाश्लेषादात्तैरङ्गीकृतैर्निष्यन्दैः पूर्णेश्चन्द्रकान्तघटितै- स्तरूणामालवालैर्विफलीकृतजलसेकप्रकाररूपगौरवेणेत्यर्थः ॥ शब्दव्यवस्थि- सेति ॥ शब्दप्रयुक्तेत्यर्थः । तथाच समप्राधान्यमर्थभेदविषयमिति भावः । प्रति- क्षिप्यते निवार्यते कोट्यन्तरमनेनेति प्रतिक्षेपो विरोधः ॥ . .. मुक्का इति ॥ विदुषां भवनेषु मन्दिरेषु केलौ सुरतक्रीडायां विच्छिन्नसूत्रा- द्वारादलिताः संमार्जनीभिरपसारिताःप्रातःकालेऽङ्गणसीमान्ते मन्दं चलता बा- लानां चरणलाक्षारसेनारुणा मुक्काः दूराद्दाडिमबीजशङ्कितधियः क्रीडाशुका यत्क-- न्याकर्षन्ति तझोजनृपतेस्त्यागस्य दानस्य लीलायितमित्यम्वय तित्रैव बाला- थिलाक्षारुणा इत्यत्रैव ॥ वक्ष्यमाणेति ॥ शकृितधिय' इति वक्ष्यमाणेत्यर्थः । ..