पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
उपमालंकारः १]
अलंकारचन्द्रिकासहितः ।

तडिद्गौरीन्दुतुल्यास्या कपूरन्ती दृशोर्मम ।।
कान्त्या स्मरवधूयन्ती दृष्टा तन्वी रहो मया ॥ ८॥
यत्तया मेलनं तत्र लाभो मे यश्च तैद्रतेः ।।
तदेतत्काकतालीयमवितर्कितसंभवम् ॥ ९ ॥

उपमेयादीनां चतुर्णा मध्ये एकस्य द्वयोस्त्रयाणां वा प्रतिपादकशब्दाभावेन लुप्तोपमेत्युच्यते । सा चाष्टधा । यथा-वाचकलुप्ता १, धर्मलुप्ता २, धर्मवा- चकलुप्ता ३, वाचकोपमेयलुप्ता ४, उपमानलुप्ता ५, वाचकोपमानलुप्ता ६, धर्मोपमानलुप्ता ७, धर्मोपमानवाचकलुप्ता च ८ इति । तत्रोपमानलोपरहिता- श्चत्वारो भेदास्तडिद्गौरीत्यादिश्लोकेन प्रदर्शिताः । तद्वन्तो भेदा उत्तरश्लोकेन प्रदर्शिताः । तत्र तडिद्गौरीत्यत्र वाचकलोपस्तडिदिव गौरीत्यर्थे उपमानानि सामान्यवचनैः' इति समासविधायकशास्त्रकृतः । इन्दुतुल्यास्येत्यत्र धर्मलोपः स त्वैच्छिको न शास्त्रकृतः । कान्त्या इन्दुतुल्यास्येत्यपि वक्तुं शक्यत्वात्। कर्पूरन्तीत्यत्र धर्मवाचकलोपः । कर्पूरमिवाचरन्तीत्यर्थे विहितस्य कर्पूरवदा- नन्दात्मकाचारार्थकस्य क्विप इवशब्देन सह लोपात् । अत्र धर्मलोप ऐ- च्छिकः । नयनयोरानन्दात्मकतया कर्पूरन्तीति तदुपादानस्यापि संभवादिति।


शासनेन निरूढलक्षणावगमेऽप्यानुपूर्वी विशेषबत्तया शब्दविशेषस्य तदबोधनात्। शास्त्रकृत इति । शास्त्रप्रयुक्त इत्यर्थः । कर्पूरन्तीत्यत्रेति। अत्र ‘सर्वप्रातिपदिकेभ्यः क्विवा वक्तव्यः' इत्यनेन विहितः क्विप्पु लुप्तोऽपि स्मर्यमाणो धर्ममात्ररूपमाचारं बोधयति । कर्पूरपदं च लक्षणया कर्पूरसादृश्यम्। तस्य चातिरिक्तत्वे पूर्ववत्प्रयोजकतासंसर्गेणाचारेऽन्वयो धर्मरूपत्वे त्वभेदेन । वस्तुतस्तु क्विब्लोपाप्रतिसन्धानेऽपि तथा बोधात्कर्पूरादिशब्दा एव कर्पूरादिसादृश्यप्रयोजकाभिन्नं तत्साध्श्याभिन्नं वाचारं लक्षयन्तीति युक्तम् । ननु वाचकस्येवादेरनुपादानाल्लोपो युक्तः साधारणधर्मस्य त्वाचाररूपस्य क्विबुपात्ततया कथं लोपस्तत्राह कर्पूरवदानन्दात्मकाचारार्थस्य क्विप इति । कर्पूरस्येवेतीवाथै वतिः ।आनन्दात्मको जनकतासंबन्धेन। वस्तुगत्या आनन्दस्वरूपो य आचारस्तद्बोधकस्येत्यर्थः। ननु क्विब्लोपोझानेऽप्याचारप्रतीतेः कर्पूरदिपदानामेव तद्बोधकवपक्षे कथं धर्मलोपः संगमनीय इति चेत्। अत्र प्राञ्चः। एवमपि तद्वाचकत्या विहितस्य क्विपो लोपात्तल्लोपव्यपदेशः । अत एवात्र समानार्थकः क्यच् नोपात्तस्तस्यालुप्तत्वादित्याह:। नव्यास्तु धर्ममात्ररूपस्याचारस्योपादानेऽप्यानन्दत्वादिना विशेषरूपेणानु- पादानाद्धर्मलोपो युक्त एव । अन्यथा इन्दुतुल्यास्येन्यादेधर्मलुप्तोदाहरणस्यासङ्गतत्वापत्ते:। न चैवं क्यजादावपि धर्मलुप्ता स्यादिति वाच्यम् । इष्टापत्तेरित्याहुः ।। १. ‘तद्रते.