पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

कुवलयानन्दः । [रूपकालंकारः ५ साध्वीयमपरा लक्ष्मीरसुधासांगरोदिता। अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते ॥ २०॥ विषय्युपमानभूतं पद्मादि विषयस्तदुपमेयं वर्णनीयं मुखादि विषयिणो रूपेण विषयस्य रञ्जनं रूपकम् । अन्यरूपेण रूपवतः करणाचच्च क्वचित्प्रसिद्ध- विषय्यभेदपर्यवसितं क्वचिद्भेदे प्रतीयमान एव तदीयधर्मारोपमात्रपर्यवसितम्। ततश्च रूपकं तावद्विविधम् । अभेदरूपकं कताद्रूप्यरूपकं चेति । द्विविधमपि प्रत्येकं त्रिविधम् । प्रसिद्धविषय्याधिक्यवर्णनेन न्यूनत्ववर्णनेनानुभयोक्त्या चैवं रूपकं षड्विधम् । अयं हीत्यादिसार्धश्लोकेनाभेदरूपकाणि अस्या मुखेन्दुनेत्यादिसार्धश्लोकेन ताद्रूप्यरूपकाणि । आधिक्यन्यूनत्वानुभयोक्त्युध्येशक्रमप्रातिलोम्येनोदाहृतानि । येन दग्धा इति विशेषणेन वर्णनीये राज्ञि प्रसिद्धशिवाभेदानुरञ्जनाच्छिवस्य पूर्वावस्थातो वर्णनीयराजभावावस्थायां वावस्थायां समदृष्टितां समसंख्यलोचनतामेकरूपलोचनवत्तां च । मुखेन्दुनेति। अत्रेन्दुपदमिन्दुकार्यकारिपरम् । किमिन्दुनेति प्रसिद्धचन्द्राद्भेदविवक्षणात् । अत- श्चन्द्रताद्रूप्यरूपकमिदम् । न चात्रोत्तरपदार्थप्राधान्यादिन्दुकार्यकारिणि मुखामे- दभानान्मुखाभेदरूपकं स्यान्न तु चन्द्रताद्रूप्यरूपकमिति वाच्यम् । व्युत्पत्तिवैचित्र्येण मुखस्य खनिष्ठाभेदप्रतियोगित्वसंसर्गेणान्वयाभ्युपगमाद्विशेषणानुयोगिकस्यपि विशेषणसंबन्धतायाः खामित्वंस्य पष्ठ्यर्थत्ववादिभिः प्राचीनैश्चैत्रस्य धनमित्यादावङ्गीकारात् । एवंच मुखनिष्ठाभेदप्रतियोगी चन्द्रस्तत्कार्यकारी वेति बोधान्न मुखाभेदरूपकापत्तिर्मुखप्रतियोगिकामेदस्याभानादित्येवमन्यत्राप्यूह्यम् ॥ असुघेति ॥ सुधासागरादुदितोत्पन्ना प्रसिद्धा लक्ष्मीः, इयं तु न तथेति न्यूनत्वोक्तिः॥ अतिरिच्यत इति ॥ निष्कलङ्कतया अधिको भवतीत्यर्थः । लक्षणश्लोकं व्याचष्टे-विषय्युपमानेत्यादि । विषयिणोऽभेदेन रूपेण चेति पाठः । रूपेण आहादकत्वादिना ताद्रूप्येण । क्वचित्तादूप्येण चेत्येव पाठः। परमार्थतस्तु प्रामाणिकपुस्तकेषु विषयिणो रूपेण विषयस्य रञ्जन मिति युक्ततरः पाठः । तेन तच्चेत्यादेर्न पौनरु- क्त्ययमिति ध्येयम् । हरिद्रादिना पटादिरञ्जने प्रयुक्तस्य रञ्जनशब्दस्येह प्रवृत्तौ बीजमाह-अन्यरूपेणेति । रूपं रक्तपीतादिकम्। अभेदताद्रूप्ये च तथा चान्यदी-- यधर्मेणान्यस्य तद्वत्तासंपादनत्वसामान्यादिह गौणरञ्जनशब्दप्रयोग इति भावः ।। तच्चेति॥रञ्जनं चेत्यर्थ:। प्रसिद्धेति ॥ कविसंप्रदायप्रसिद्धोपमानाभेदेन लब्धा- त्मकमित्यर्थः । रूपपदस्याभेदताद्रूप्योभयसाधारणत्वादिति भावः। अभेदेन रूपेण चेति पाठे तु तच्चेत्यत्र चशब्दो हेत्वर्थकः। तेन पूर्वोक्तस्यैव समर्थनमिति न पौन- रुक्त्यम् । तावद्विधान्तरोक्तेः प्रागुद्देशक्रमप्रांतिलोम्येनेति । निर्देशक्रमवैपरीत्येनेस्यर्थ:-।

एतदेव विशदयति-येनेत्यादि । विशेषणेनेति हेतौ तृतीया। पुरदग्धू-

त्वविशेषणहेतुकशिवामेदानुरञ्जनादित्यर्थः। ननु न्यूनत्ववर्णने भेदापकर्षयोः प्र-

१ 'सागरोत्थिता'.