पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
रूपकालङ्कारः ५]
१७
अलंकारचन्द्रिकासहितः ।

न्यूनत्वाधिक्ययोरवर्णनाच्चानुभयभेदरूपकमाद्यम् । तृतीयलोचनप्रहाणोक्त्या पूर्वावस्थातो न्यूनताप्रदर्शनाच्यूनाभेदरूपकं द्वितीयम् । न्यूनत्ववर्णनमप्य- भेददार्ढ्यापादकत्वाञ्चमत्कारिविषयदृष्टित्वपरित्यागेन जगद्रक्षकत्वोक्त्या शिवस्य पूर्वावस्थातो वर्णनीयराजभावावस्थायामुत्कर्षविभावनादधिकाभेदरूपकं तृतीयम् । एवमुत्तरेषु ताद्रूप्यरूपकोदाहरणेष्वपि क्रमेणानुभयन्यूनाधिकभावा उन्नेया: । अनेनैव क्रमेणोदाहरणान्तराणि-

चन्द्रज्योत्स्नाविशदपुलिने सैकतेऽस्मिञ्छय्वा
वादध्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् ।
एको वक्ति प्रथमनिहतं कैटभं कंसमन्य-
स्तत्वं स त्वं कथय भगवन्को हतस्तत्र पूर्वम् ॥

अन्न स त्वमित्यनेन यः कंसकैटभयोर्हन्ता गरुडध्वजस्तत्तादात्म्यं वर्णनी- यस्य राज्ञः प्रतिपाद्य ते प्रति कंसकैटभवधयोः पौर्वापर्यप्रश्नव्याजेन तत्तादा- त्म्यदार्ढ्यकरणात्पूर्वावस्थात उत्कर्षांपकर्षयोरविभावनाक्च्चानुभयाभेदरूपकम् ।

वेधा द्वेधा भ्रमं चक्रे कान्तासु कनकेषु च ।।
तासु तेष्वप्यनासक्तः साक्षाद्भर्गो नराकृतिः ॥

अन्न साक्षादिति विशेषणेन विरक्तस्य प्रसिद्धशिवतादात्म्यमुपदिश्य मरा- कृतिरिति दिव्यमूर्तिवैकल्यप्रतिपादनान्यूनाभेदरूपकम् ।


तीतेः कथं चमत्कारितेत्यत आह-अभेददार्ढ्यापादकत्वादिति ॥ विशेष- निषेधस्य शेषाभ्यनुज्ञानफलकतया निषिद्धव्यतिरिक्तसकलगुणशालिताप्रतीतौ ‘ए- कदेशविकृतमनन्यवद्भवति' इति न्यायेनाभेदनिश्चयसंपादकत्वादि त्यर्थः । विभावनात्प्रकाशनात् ॥ चन्द्रज्योत्स्नेति ॥ राजानं प्रति कस्यचिदुर्किः । हे भगवन्, चन्द्रज्योत्स्नावद्विशदं श्वेतं पुलिनं यस्य तथाभूतेऽस्मिन् शरय्वाः शरयूनामकनद्याः सैकते सिकतामयदेशे कयोश्चित्सिद्धतरुणयोश्चितरमतिचिरकालं वादरूपं द्यूतमभूत्।

कीदृक्तत्राह। एकः सिद्धयुवा कौटभं दैत्यविशेषं प्रथमं निहतं वक्ति वदति,

अन्यः कंसं प्रथम निहतं वक्ति, स कंसकैटभयोर्हन्ता त्वं तत्र तयोर्मध्ये पूर्वं को हत इति तत्त्वं कथयेत्यन्वयः । यद्यपि मुनिप्रभृतावेव भगवन्नित्यमन्त्रणमुचितं न राजादौ तथापि राज्ञो भगवत्तादात्म्यवर्णनादनौचित्यं परिहरणीयम् । क्वचित्तु भवतेति पाठः। अत्र ज्योत्स्नापदेनैव चन्द्रिकालामेऽपि चन्द्रपदं शारदपूर्णचन्द्र- परतया नापुष्टार्थम् । पुष्पमालेत्यत्रं पुष्पपदमिवोत्कृष्टपुष्पपरतयेति बोध्यम् । वादयोग्यतासूचनाय यूनोरित्युक्तम् । अयं हीत्युदाहरणेऽभेदारोपहेतुभूतं पुरदा हकत्वरूपं साधर्म्यमुपातं इह तु जगद्रक्षकत्वादिकं तद्गम्यमानमिति भेदः ॥ वेधा इति ॥ द्वेघा कान्ताधर्मिकत्वकनकधार्मिकत्वरूपविधाद्वययुक्तं भ्रमं बल- वदनिष्टाननुबन्धिसुखसाधनत्वभ्रमम् । सर्वेषामपि भ्रमाणां वेधसा निर्माणेंऽ पि प्राधान्यविवक्षयेत्यभिधानम् । अयमास्त इत्युदाहरणे शंभुसादृश्यं गम्यमानमिह