पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
रूपकालङ्कारः ५]
१९
अलंकारचन्द्रिकासहितः ।

अत्र हरावपर इति विशेषणान्निष्वपि ताद्रूप्यमान्नविवक्षा विभाविता, च- तुर्वदनत्वादिवैकल्यं चोक्तमिति न्यूनतद्रूप्यरूपकम् । इदं विशेषोक्त्युदाहरणमिति वामनमतम्। यदाह‌-- 'एकगुणहानौ गुणसाम्यदाढ्य विशेषोक्ति:' इति ।

किमसुभिर्ग्लपितैर्जड मन्यसे मयि निमजतु भीससुतामनः ।।
मम किल श्रुतिमाह' तदर्थिकां नलमुखेन्दुपरां विबुधः स्मर: ॥

अत्र दमयन्तीकृतचन्द्रोपालम्भे प्रसिद्धचन्द्रो न निर्याणकालिकमनःप्रवे- शश्रुतितात्पर्यविषयः । किंतु नलमुखचन्द्र एवेति ततोऽस्याधिक्यप्रतिपाद- नादधिकताद्रूप्यरूपकम् । रूपकस्य सावयवत्वनिरवयवत्वादिभेदप्रपञ्चनं तु चिन्नमीमांसायां द्रष्टव्यम् ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥


ताद्रूप्यरूपकं स्यादितरांशे त्वभेदरूपकमेवेत्याशङ्कयाह-अत्रेति ।। त्रिष्वपीति। एकत्रानेकारोपरूपायां रूपकमालायामवैरूप्याय तात्पर्यग्राहकस्यैकत्र स्थितस्यापि साधारण्यवोचितमिति भावः । अयमेव च साध्वित्दिपूर्वोदाह- रणाद्विशेषः । न्यूनरूपकस्य क्वमकारित्वं पूर्नमुक्तं वृद्धसंमत्या द्रढग्रति इदमि- ति । यदाहेत्यनन्तरं स इति शेषः । एकगुणहानावभिहितायामिति शेषः । गुण- साम्यदाढ्यं शेषगुणप्रयुक्तसाम्यायोगव्यवच्छेदः । चतुर्वदनत्वाध्येकगुणव्यतिरेकस्य प्रमाणान्तरसिद्धस्य पुनर्वचनं शेषगुणाभावपरिसंख्यार्थं पर्यवस्यतीति भावः । अत्रच रूपकप्रभेदत्वेनैव चमत्कारोपपत्तौ नालंकारान्तरत्वं न्यूनत्ववर्णनस्य युक्तम्। सामग्रीकालीनकार्याभावस्य त्वलंकारान्तरासंभिन्नस्य तद्वक्ष्यमाणं युक्त- मित्यखरसो मतमित्यनेन सूचितः ॥ किमसुभिरिति । जडेति मूर्ख-जलमयेति साधारणं चन्द्रसंबोधनम् । ग्लपितैर्नष्टैरसुभिर्निमित्तभूतैर्भीमसुताया दमयन्त्या मनो मयि निमज्जतु निंलीयतामिति मन्यसे किमिति सोपहासकाकुः । तेन मैवं मंस्था इत्यर्थः । अत्र हेतुमाह। किल निश्चितम् । मम विबुधः पण्डितः स्मरः तददर्थिकां सः प्राणनिर्गमकालीनमनःप्रवेशोऽर्थो यस्यास्तां श्रुतिं नलमु- खेन्दुपरां मनःप्रवेशाधिकरणत्वेन नलमुखचन्द्रतात्पर्यवतीमाहेति । अयं कलङ्कित इत्युदाहरणे दोषशून्यत्वप्रयुक्तं शाब्दमाधिक्यम्, इह तु गुणविशेषप्रयुक्तं गम्यमानं तदिति विशेषः ॥ सावयवत्वनिरव्यवत्वादीति ॥ आदिना समस्त- वस्तुविषयत्वादिरूपैतत्प्रभेदानां परम्परितत्वरूपभेदान्तरस्य च परिग्रहः । तथा- हि सावयवं निरवयवं परम्परितं चेति त्रिविधं रूपकं प्रत्येकं क्रमेण द्विविधम् । समस्तवस्तुविषयमेकदेशविवर्ति च केवलं माला च श्लिष्टवाचकंमश्लिष्टवाचकं चेति श्लिष्टाश्लिष्टभेदयोः केवलमालारूपत्वाभ्यामन्त्यं चतुर्विधमित्यष्टौ भेदाः । तत्र 'ज्योत्स्ना भस्मच्छुरणधवला बिभ्रती तारकास्थीन्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । द्वीपाद्वीपं भ्रमति दधती चन्द्रमुद्रा कपाले न्यस्तं सिद्धाञ्ज नपरिमलं लाञ्छनस्य च्छलेन।” इति पध्म रात्रौ कापालिकीत्वारोपस्य प्रधान- तयावयविनोऽवयवरूपाणि ज्योत्स्नाभस्मेत्यादिरूपकाणीति सावयवत्वं समस्तस्य