पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
अपह्नुत्यलङ्कारः ११]
२५
अलंकारचन्द्रिकासहितः ।

अपह्रुत्यलंकारः ११

अलन्कारचन्द्रिकासहितः २५

                 अपह्रुत्यलंकारः ११

शुद्धापहृतिरन्यस्यारोपार्थों धर्मनिह्नवः ।।
                 नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥ २६ ॥

            वर्णनीये वस्तुनि तत्सदृशधर्मारोपफलकस्तदीयधर्मनिह्नवः कविमतिवि-

यन्त्रमेकरज्जुसंबद्धघटमालारूपम् । भाषायां ‘राहाट' इति प्रसिद्धम् ॥ कल्पितेति। घटीयन्त्रसंवन्धिनोर्ज्येष्ठकनिष्ठयोः कोट्योरप्रसिद्धेरिति भावः ॥२४॥२५॥ इल्यलंकारचन्द्रिकायां स्मृतिभ्रान्तिसंदेहप्रकरणम् ॥ ८ ॥ ९ ॥ १० ॥

अथापह्रुतिः । तत्र तावदभेदप्रतिपत्तिनिरूपिताङ्गाङ्गित्वान्यतरवान्निषेधोऽपहु- तिरित्यपह्रुतिसामान्यलक्षणम् । निषेधश्च नवादिसत्त्वे वाच्यः । क्वचित्तु, तदभा- वाल्कैतवादिपदैः परमतत्वोपन्यासादिभिश्च व्यङ्ग्यः । तथा क्वचिदभेदप्रतिपत्ति- समानाधिकरणः क्वचित्तु तद्व्यधिकरण इति विवेकः । एवमभेदः क्वचिदारोप्यमाणः क्वचित्तु स्वाभाविकः । एवं तत्प्रतिपत्तिरपि क्वचिड्यजनया प्रायशस्तु वाच्यवृत्त्येति बोध्यम् । निषेधोऽपह्रुतिरित्येतावदुक्तौ 'न ध्यूतमेतत्कितव क्रीडनं निशितैः शरैः' इति प्रसिद्धनिषेधानुवादरूपे प्रतिषेधालंकारेऽतिव्याप्तिरतोऽमेद- प्रतिपत्तिार्निरूपितेत्यादि विशेषणमुपात्तम् । तत्र हिं युद्धप्रवृत्तं कितवं प्रति युद्धे ध्यूत्वाभावो निर्ज्ञातोऽपि कीर्त्यमानो ध्यूत एव तत् प्रागल्भ्यं न तु युद्धे इत्युप- हासार्थो न तु युद्धाभेदप्रतिपत्त्यङ्गम् , तस्यास्तदुपन्यासं विनापि सिद्धत्वात् । ना- प्यङ्गिभूतः। निर्ज्ञातत्वेन तदुपायानपेक्षणादिति तद्वारणम् । अभेदप्रतिपत्तिनिरूपि ताङ्गित्वमात्रोक्तौ शुद्धापह्रुति हेत्वपह्रुतिपर्यस्तापह्रुतिकैतवापह्रुतिष्वव्याप्तिः। तत्र सर्वत्र ‘नायं सुधांशुः' इत्यादेर्निषेधस्य व्योमगङ्गासरोरुहाद्यभेदप्रतिपत्त्यर्थत्वेन तदङ्गतयाङ्गित्वभावात् । अभेदप्रतिपत्तिनिरूपिताङ्गत्वमत्रोक्तौ च भ्रान्तापह्रुति- च्छेकापलुयोरव्याप्तिः । तयोभ्रान्तिशाङ्कानिवारणरूपनिषेधस्स प्राधान्येनाभेदप्र- तिपयङ्गत्वाभावात् । अतस्तदन्यतरवत्त्वनिवेशः । तदाहुः-'सामन्यपहृवो यत्र सा विज्ञेया त्वपह्रुतिः । अपह्नवाय सादृश्यं यस्मिन्नेषाप्यपह्वतिः, ॥ इति । सर्वं वै- तत्तदुदाहृरणव्याख्यानावसरे व्यक्तीभविष्यतीति न प्रपञ्चितम् । एवं सामान्य लक्षणं मनसि निधाय शुद्धापह्रुत्यादींस्तद्भेदान्वक्तुमुपक्रमते-शुद्धापह्रुतिरिति । लक्षणं व्याच्ष्टे-वर्णनीय इति ॥ कविमतेर्विकासः स्फूर्तिशालता । तथा चोपमेय उपमानारोपफलक उपमेयधर्मत्वाभिमतनिषेधः शुद्धापह्वतिरिति लक्षणमिति भावः । अत्र चानुक्तनिमित्तत्वं कैतवादिपदाव्यङ्ग्यत्वं च निषेधविशेषण बोध्यम् । तेन हेत्वपह्रुतौ कैतवापह्रुतौ च नातिप्रसङ्गः । ‘कान्तः किं नहि नूपुरः इति छेकापह्रुतावुपमेयधुर्मस्य कान्तत्वस्य निषेधसत्त्वादतिप्रसङ्गवारणायाद्यं विशेषणम्।- तत्र हि न कान्तत्वनिषेधो नूपुरारोपार्थोऽपितु नूपुरारोप एव शङ्कि तकोन्तत्वनिषेधार्थ इति तध्यावृत्तिः । पर्यस्यापह्रुतिवारणायोपमेयधर्मेत्युक्तम्, तत्रोपमानधर्मस्यैव सुधांशुत्वादेर्निषेध इति नातिव्याप्तिरिति सर्व सुस्थम् ॥