पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्प्रेक्षालंकारः १२] अलंकारचन्द्रिकासहितः। ३१ अत्रासत्यत्वाभिधायिना कैतवपदेन नेमे कान्ताकटाक्षाः किंतु स्मरनाराचा इत्यपह्नवः प्रतीयते ॥

           रिक्तेषु वारिकथया विपिनोदरेषु
           मध्याह्नजृम्भितमहातपतापतप्ताः ।
           स्कन्धान्तरोत्थितदवाग्निशिखाच्छलेन
           जिह्वां प्रसार्य तरवो जलमर्धयन्ते ॥३१॥
                   ------------
                   उत्प्रेक्षालंकरः १२
            संभावना सादुत्प्रेक्षा वस्तुहेतुफलात्मना ।
            उक्तानुक्तास्पदाध्यात्र सिद्धाऽसिद्धास्पदे परे ॥ ३२॥ 
            धूमस्तोमं तमः शङ्के कोकीविरहशुष्मणाम् ।

पदैर्निह्नुतेर्व्यक्तौ अभिव्यक्तौ सत्यां कैतवापह्नुरिति व्यवहर्तव्यमित्यर्थः । कैत- वेनापह्नुरिति व्युत्पत्तेः । व्याजाद्यैरित्यनेन मिषकपटच्छलच्छद्मकैतवांदयो गृ- ह्यन्ते । एवंच कैतवादिपदव्यङ्ग्यापह्नुतित्वं लक्षणं बोध्यम् । नाराचा बाणाः । द्रुक्पाताः कटाक्षाः। अपह्नवो निषेधः ॥ प्रतीयत इति ॥ असत्यत्वस्य विषय- बाधाधीनलादिति भावः ॥ रिक्तेष्विति ॥ ग्रीष्मवर्णनम् । तरवो वृक्षा वारिणो जलस्य कथया वार्तयापि रिक्तेषु शून्येषु विपिनस्थारण्यस्योदरेषु मध्यप्रदेशेषु जलमर्थयन्ते प्रार्थयन्ते । कीदृशाः । मध्याह्ने जृम्भितः प्रवृद्धो यो महानातप उष्णं तस्य तापस्तपनं तेन तप्ताः संतप्ताः । किं कृत्वा । स्कन्धान्तरात्प्रकाण्डा- भ्यन्तरात्थितो यो दवाग्निर्दावानलस्तस्य या शिखा ज्वाला तस्याः छलेन । जिह्वां प्रसार्येति । 'अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः' इत्य- मरः । अत्र नेयं दवाग्निशिखा अपितु जिह्वेति च्छलपदात्प्रतीयते, अत्र चान- भिहितवाच्यतादोषनिरासाय कथयापि वनोदरेष्विति पठनीयम् ॥३१॥ इत्य- लंकारचन्द्रिकायामपह्नुतिप्रकरणम् ॥ ११॥ __ उत्प्रेक्षां लक्षयति--संभावनेति ॥ अत्रोत्प्रेक्षेत्खनन्तरं सा च त्रिधेत्यध्या- हार्यम् । तथाच संभावना उत्प्रेक्षापदवाच्या स्यात्सा च वस्तुहेतुफलरूपेण त्रि- धेत्यर्थः । वस्तुहेतुफलानां च संभावनाधर्मत्वं स्वविधेयकत्वसंबन्धेन । तेन वस्तुहे- तुफलविधेयकत्वेनेति पर्यवसितार्थः । वस्तुत्वं च हेतुत्वेन फलत्वेन वा विवक्षितं यत्तद्भिन्नत्वम् । नातो वस्तुत्वस्य केवलान्वयितया विभागसंगतिः ॥ उक्तोत्यादि॥ अत्र आसामुत्प्रेक्षाणां मध्ये । आद्या वस्तूत्प्रेक्षा । उक्तं चानुक्तं चोक्तानुक्ते आस्पदे यस्या इति विग्रहः । आस्पदं चोत्प्रेक्षाया धर्मिरूपो विषयः। सि- द्धासिद्धेत्यत्र विग्रहः पूर्ववत् ॥धूमेति ॥ तमः, कोकीविरहशुष्मणां धूमस्तोमं शङ्के

१ 'फलात्मता'. २ 'स्पदार्थाश्च'. ३ 'विरहसोष्मणाम्'.