पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ansar Nir ainraMaNrianRRR Vasage ४२ कुवलयानन्दः । [अतिशयोक्त्यलंकारः १३ : .. अत्र गजस्य सरःप्रवेश प्रति फले खाने फलत्वमपडत्य पक्ष्यबाधने तन्नि- वेशितम् । अलमनया प्रसकानुप्रसत्या प्रकृतमनुसरामः ॥ ३७॥ भेदकातिशयोक्तिस्तु तस्यैवान्यत्वर्वणनम् । । अन्यदेवास्य गाम्भीर्यमन्यद्धेयं महीपतेः॥३८॥ अत्र लोकप्रसिद्धगाम्भीर्याद्यभेदेऽपि भेदो वर्णितः । यथावा- अन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी। नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः ॥ ३८ ॥ संवन्धातिशयोक्तिः सादयोगे योगकल्पनम् । सौधाग्राणि पुरस्साय स्पृशन्ति विधुमण्डलम् ॥ ३९ ॥ यथावा--- कतिपयदिवसः क्षयं प्रयायात्कनकगिरिः कृतवासरावसानः। गजस्तस्य रचेयान्पक्ष्यान्वन्धूनिति यावत् । ध्रुवं प्रायो बाधितुं सरः प्रविशति नतु सातुं स्नानार्थम् । हि यस्मादजस्य स्नानं निष्फलं निष्प्रयोजनमित्यन्वयः ॥ प्रसकानुनसक्येति। अतिशयोकः सापवलकथनप्रसङ्गादलंकारसर्वस्व- कृदुकं खरूपोत्प्रेक्षाया शुद्धापद्भुतिगर्भत्वं दर्शितं तदनुप्रसत्त्या व त्रिविधाख- युत्प्रेक्षामु पर्यस्तापबुतिगर्भलमिलर्थः ॥ ३७॥ मेदकेति ॥ तस्यैव तजाती- यस्यैवान्यखवर्णनं तजादीयभिन्नत्वेन वर्णनं तच्चाहार्य बोध्यम् । एवमग्रेऽपि । तेन प्रान्ती नातिब्याप्तिः । इदं च लोकोत्तरलप्रतिपत्यर्थम् ॥ अन्यदेवेति ॥ अस्य महीपतेगाम्भीर्य अन्यदेव प्रसिद्धगाम्भीर्यमिन्नमेवेसर्थः । अन्येयमि- ति।। रूपं सौन्दर्य, बंदग्य चातुर्य, धोरणी परिपाटी । एषा नलिनपत्राक्षी विधेःसाधारणी सृष्टिने चेत्यन्वयः । अत्रोत्तरार्धे नमङ्ग्याऽन्यखवर्णनं विशेष: ॥ ३८ ॥ संबन्धेति ॥ अयोगेऽनंबन्धे योजकल्पनं संबन्धवर्णनम् । संवन्धश्चाभेदमित्रत्वे सत्यन्यवाद्यनिरूपिनो ग्राह्यः । तेन रूपकातिशयो-. त्यादिप्रमेदेधु नातिव्याप्तिः ॥ सौधेति । 'सौधोऽत्री राजसदनम्' इल्यु- मरः । नन्वत्रैब स्पृशन्तीवेन्दुमण्डलमितीवपदप्रयोगे उत्प्रेक्षाप्रतीतेस्तदप्रयोगे गम्योत्प्रेक्षालमुचितम् । इवादिसत्त्वे या वाच्योत्प्रेक्षा सैवेवाद्यभावे गम्योत्प्रेक्षे- ति नियमात् । अन्यथा लत्कीर्तिभ्रमणधान्तेत्यादिपूर्बोदाहृते पद्येऽपि गम्योत्प्रे- क्षा न स्याद्विशेषाभावादिति चेन्मैवम् । उपदर्शितनियमस्यालंकारान्तराविषय. एवाभ्युपगमात् । अन्यथा नूनं मुखं चन्द्र इत्यादौ नूनमिलप्रयोगे गम्योत्प्रेक्षा- पत्तेः। एवंच प्रकृतेऽसंवन्धे संवन्धवर्णनरूपातिशयोक्त्यलंकारविषये न गम्यो- स्प्रेक्षावसरः । लत्कीर्तिरित्युदाहरणे तु भ्रमणश्रान्तरूपहेत्वंशे गम्योत्प्रेक्षामिप्रे- ता नतु खर्गङ्गाप्रवेशांश इति सर्वमवदातम् । असंदिग्धमुदाहरणान्तरमाह- . यथावेति ॥ कतिपयेति॥ वीरदेवाख्ये नृपे वितरणशालिनि दानशालि- १शयोक्तिः स्यान्तस्यै'. २ 'कल्पनम्'. ३ 'च भूपते.'