पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः । [प्रतिवस्तूपमालंकारः १७ विद्वानेव विजानाति विद्वजनपरिश्रमम् । नहि वन्ध्या विजानाति गुवौं प्रसववेदनाम् ॥ यदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम् । नहि कस्तूरिकामोदः शपथेन विभाव्यते ॥ ५ ॥ वक्ष्यमान इत्यर्थः । विद्वानेवेति ॥ यद्यप्यन्ययोगव्यवच्छेदार्थेनैवकारेणावि- द्वान्नं जानातीति पूर्ववाक्यार्थस्तस्य च नहि वन्ध्येत्युत्तरवाक्याथैः सधर्मेद तथा- पि रूपवत्येवाकाश इत्यादिप्रयोगवारणाय भावान्वयस्थाप्यावश्यकतया विद्वान् जानातीति वाक्यार्थस्यापि प्रतीतेस्तदभिप्रायेण वैधम्यादाहरणत्वं बोध्यम् । ननु वैधम्र्येणोपमेति व्याहतं तस्याः साधर्म्यरूपलादिति चेत्सवम् । वैधयेणो- पन्धस्तेन नम्ह वन्ध्येति वाक्यार्थेनाक्षिप्तस्यापि तु प्रसवित्र्येव जानातीति वा- क्यार्थस्योपमानत्वेन विवक्षणान्मुखतो बैधर्म्यप्रतीतावपि साधर्म्य एव पर्यवसा- नाम दोषः । वैधयेणेत्यस्य च वैधर्म्यद्वारेत्यर्थः।। यदि सन्तीति ॥ एव- कारो भिन्नक्रमः । स्वयमेव विकसन्ति । प्रकाशन्त इत्यर्थः । अत्रापि गुणः स्वयं प्रकाशन्त इति भावान्वयविधर्मा कस्तूरिकामोदः शपथेन न ज्ञायत इति वा- क्यार्थखदाक्षिप्तेन किंतु स्वयमेव प्रकाशत इति वाक्यार्थेन चौपम्यं गम्यमिति पूर्ववद्वैधयॊदाहरणवसंगतिः । यत्त्वत्र कैश्चिदुक्तं विद्वानेवेति पद्यं भवतु नाम कथंचिद्वैधर्योदाहरणं, यदि सन्तीति तु न युक्तम् । वैधयॊदाहरणं हि प्रस्तुतध- मिविशेषोपारूढार्थदााय स्वाक्षिप्तखव्यतिरेकसमानजातीयस्य धर्मान्तरारूढ- स्याप्रकृतार्थस्य कथनम् । यथा-'वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः। नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥' इत्यादौ । . अत्र हि सनविशेषेण पूज्यते इति प्रस्तुतार्थाक्षिप्तस्य सङ्गविशेषेण विना न पू- ज्यत इति खन्यतिरेकस्य सजातीयो नहि तुम्बीफलविकल इत्याद्यप्रकृतार्थो विवद्ध इति वैधम्र्योदाहरणलम् । यदि सन्तीत्यत्र तु स्वयं प्रकाशन्ते न परेणे- त्यस्य प्रस्तुतस्यैद सजातीयोऽप्रकृतोऽर्थः शपथेन न विभाव्यते किंतु खयमे- वैवि प्रकृतार्थानुरूपतयैव पर्यवसानादिति । तत्रेदं वक्तव्यम् । वंशभव इत्यादि- भवदुदाहृतपद्येऽपि कथं वैधम्यादाहरणलम् । नहीत्यादेस्तुम्बीफलविकलो म.. हिमानं न प्रचात्सपितु तद्युक्त इति प्रकृतार्थानुरूपतयैव पर्यवसानादिवि किंव- हुँना, सर्वत्रैव वैधयॊदाहरणे साधर्म्यपर्यवसानं विना नोपमानिर्वाह इति तदु- च्छेदप्रसङ्कः । अथापातप्रतिपन्नेनाप्रकृतवाक्यार्थेन वैधात्तदुदाहरणत्वं तर्हि प्रकृतेऽपि तदस्तीवि तुल्यम् । यदपि प्रस्तुवेत्यादि वैधोदाहरणखनिर्वचनं तयुक्तम्, 'भटाः परेषां विशरारुतामगुर्दधत्सवाते स्थिरतां हि पांसवः' इति वैषम्यदृष्टान्ताच्याफ्वात् । नत्र प्रस्तुतवाक्यार्थः खव्यतिरेकमाधिपति कि- खप्रकृतवाक्यार्थ एवेति दिक्॥ ५॥ इति प्रतिवस्तूपमालंकारप्रकरणम् ॥१७॥