पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सहोत्तयलंकारः २१ ] अलंकारचन्द्रिकासहितः। कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्व तुल्यमशोक केवलमहं धान्ना सशोकः कल अनुभयपर्यवसायी यथा- दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमालिनी AVAT कृपणस्य कृपाणस्य च केवलमाकारतो भेकर - mementameer RIVARIKR w ovva सहोत्यलंकारः२१ सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः। दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह ॥५८॥ शोकपदश्लेषादवगम्यते । किं तत्सर्व समानं तत्राह-रक्त इत्यादि ॥ त्वं नू- तनैः पल्लवैः रको रक्तवर्णः, अहमपि प्रियायाः श्लाघनीयैर्गुणैः सौन्दर्यादिमी स्तोऽनुरक्तः । अर्थात्प्रयायाम् । हे सखे, त्वां प्रति शिलीमुखा भ्रमरा आ- यान्ति, मां प्रत्यपि स्मरेण धनुषा मुक्ताः प्रेरिता शिलीमुखा वाणा आयान्ति । एवं कान्तायाः पादतलस्याधातो यथा तव मुदे संतोषाय तद्वत्तथा ममापि संतो- षायेत्यर्थः । कामिनीपादघातेनाशोकस्य पुष्पोद्गम इति कविप्रसिद्धिः । अत्रोपमेयस्य सशोकत्वेनापकर्षः अनुभवपर्यवसायी उपमेयोत्कर्षापकर्षान्यतरपर्यवसानर- हितः ॥ दृढतरेति ॥ कृपणस्य कृपाणस्य खड्गस्य चाकारतो दीर्घाद्वर्णादाकृतेश्च केवलं भेदो वैलक्षण्यम् । प्रकारान्तरेण तु साम्यमेवेलर्थः । कथं तत्राह-दृढ- तरेत्यादि ॥ दृढतरं निबद्धो मुष्टियेनेति । कृपणपक्षे धनव्ययवैमुख्येन मुष्टिमो- चनाभावात् । खजपक्षे तु दृढतरं निबद्धः संबद्धो मुष्टिष्टिग्राह्यभागो यस्येत्यर्थः । कोशो भाण्डारगृहं तत्र निषण्ण उपविष्टः कृपणः । कोशे पिधानके निषण्णः स्थित इति खजपक्षे । सहजमलिनः खभावमलिनः। मलिनवेषलात्कृपणः । खातु कृष्णवर्णवादिति । एवंच किंचिद्धर्मप्रयुक्तसाम्यवत्तया प्रतीयमानयोः किंचिद्धर्म- प्रयुक्तलक्षण्यं व्यतिरेकशरीरम् । वैलक्षण्यं तु क्वचिदुपमेयस्योत्कर्षे कचिच तदप- कर्षे पर्यवसन्नं क्वचित्तु तदन्यतरपर्यवसान विरहेऽपि स्ववैचित्र्यविश्रान्तमात्रमिति बोध्यम् । एतेन चरममेदद्वयतदुदाहरणदूषणं कस्यचिदापातरमणीयमिव भासमानं प्रत्युक्तं वेदितव्यम् । अत्यन्तासारतया तु नानुवादमहतीत्युपरम्यते ॥ ५७ ॥ इति व्यतिरेकालंकारप्रकरणम् ॥ २० ॥ . सहोक्तिरिति॥ लक्ष्यनिर्देशः। सहभाव इत्यादिलक्षणम् । सहभावः साहित्यम्। जनरञ्जनः सहृदयजनाहादकः । एवंच चमत्कृतिजनकं साहित्यं सहोक्तिरिति ल- क्षणम् ॥ दिगन्तमिति ॥ तस्य राज्ञः कीर्तिः प्रत्यार्थभिः शत्रुभिः सह दिग- न्तमगमदित्यन्वयः । अत्रच तृतीयाया निरूपितलार्थकतया प्रत्यर्थिनिरूपितसा- हित्यवतीकीर्तिर्गमनाश्रय इतिबोधे एकथर्मान्वयित्वरूपसाहित्यबलात्प्रत्यार्थिनामपि १ श्वेदुच्यते',