पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः । [समासोक्त्यलंकारः २३ रिस्फूर्तिस्तन समासोक्तिरलंकारः । समासेन संक्षेपेण प्रस्तुताप्रस्तुतवृत्तान्त- योर्वचनात् । उदाहरणमयमैन्द्रीति ॥ अनहि चन्द्रय प्राचीग्रारम्भलक्षण- मुखसंबन्धलक्षणे उदये वर्ण्यमाने मुखशब्दस्य प्रारम्भवदनसाधारण्याद्रक्त- शब्दस्यारुणकामुकसाधारण्याचुम्बतीत्यस्य प्रस्तुतार्थसंबन्धमात्रपरस्य शक्या- न्तिरसाधारण्याञ्च चन्द्रमाशब्दगतपुंलिङ्गेन ऐन्द्रीशब्दगतस्त्रीलिङ्गेन ताति- पायेन्द्रसंबन्धिरवेन चोपस्कृतादग्रस्तुतपरवनितासतपुरुषवृत्तान्तः प्रतीयते । यथावा--- व्यावलगत्कुचभारमाकुलकचं व्यालोलहारावलि प्रेत्कुण्डलशोभिगण्डयुगलं प्रस्वेदि वाम्बुजम् । शश्वद्दत्तकरमहारमधिकश्वासं रसादेतया यसात्कन्दुक सादरं सुभगया संसेव्यसे तस्कृती ॥ अत्र कन्दुकवृत्तान्ते वर्ण्यमाने व्यावलगत्कुचभारमित्यादि क्रियाविशेषणसा- म्याद्विपरीतरतासक्तनायिकावृत्तान्तः प्रतीयते । पूर्वत्र विशेषणानि श्लिष्टानि इह साधारणानीति भेदः । सारूप्यादपि समासोक्किदृश्यते । यथावा--- aniram manishanaminimun... P ECAKERanasperinirek NHA HEND rsitimins वगमानातिव्याप्तिः । संज्ञाप्रवृत्तिनिमित्तमवयवार्थ दर्शयति-समासेनेति ॥ वचनात्प्रतिपादनात् । लक्ष्ये लक्षणं संगमयति-अति प्रारम्भ आदिभागः। साधारण्याच्छिष्टत्वात् । यद्यपि चुम्बतीत्यत्र न श्लेषस्तथाप्यर्थद्वयबोधकलमात्रेण तस्य साधारण्योक्तिः । उपस्कृतादिति साधारण्यादित्यस्य विशेषणम् । तत्र च- न्द्रम-शब्दगतेन पुंलिङ्गेन नायकलाभिव्यक्त्या उपस्कारः । ऐन्द्रीति खरूपपरंत- द्वतेन स्त्रीलिङ्गेन तदर्थस्य नायिकलामिव्यक्त्या ऐन्द्रीशब्दप्रतिपाद्येनेन्द्र संबन्धि- त्वेन च परकीयवाभिव्यक्त्येति बोध्यम् । वृत्तान्तो व्यवहारो मुखचुम्बनरूपः ॥ व्यावलादिति ॥ नायिकानुरक्तस्य कस्यचित्क्रीडालम्बनं कन्दुकं प्रत्युक्तिरियम्। हे कन्दुक, सुभगया सुन्दयों एतया नायिकया रसात्प्रीतिविशेषात्सादरमा- दरसहितं यथा स्यात्तथा यस्मात्संसेव्यसे तत्तस्मात्कृती धन्योऽसीत्यन्वयः। क- थमित्याकाङ्क्षायां संसेवनक्रिया विशिनष्टि-व्यावल्गदित्यादिना॥ व्याव- लमन्विशेषत आसमन्ताञ्चलन्कुचभारो यत्र, तथा आकुलाः क्रीडावेशेनेतस्ततः पर्यस्ताः कचाः केशा यत्र, एवं व्यालोला दोलायिता हारावलियंत्र, तथा प्रेख- ज्यां चञ्चलाभ्यां कुण्डलाभ्यां शोभायुक्तं गण्डयुगलं यत्र, एवं प्रस्वेदयुक्तं व- काम्बुजं यत्र, शश्वनिरन्तरं दत्तः करेण प्रहारो यत्र, तथा अधिकः श्वासो यत्र तथेति । वृत्तान्तः विपरीतरतरूपः। अत्रापि कन्दुकशब्दगतपुंलिङ्गेन ना- यकवाभिव्यक्तिर्बोध्या । श्लिष्टानीति॥ श्लेषमूलकाभेदाध्यवसायविषयाणी- सर्थः ॥ साधारणानीति ॥ श्लेषं विनैव प्रकृताप्रकृतवृत्तान्तयोरनुगतानी- त्यर्थः । तथाच लक्षणे साम्यशब्देन श्लेषकृतं खारसिकंच साम्यं विवक्षितमि-