पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लेषालंकारः २६ ] अलंकारचन्द्रिकासहितः । अनेकार्थशब्दविन्यासः श्लेषः । सच त्रिविधः । प्रकृतानेकविषयः सप्रकृ. तानेकविषयः प्रकृताप्रकृतानेकविषयश्च । सर्वदेत्यादिक्रमेणोदाहरणानि । तत्र सर्वदो माधव इति स्तोतव्यत्वेन प्रकृतयोहरिहरयोः कीर्तनं प्रकृतश्लेषः । अब्ज कमलमब्जश्चन्द्रस्तयोरुपमानमात्त्वेनाप्रकृतयोः कीर्तनमित्यप्रकृतश्लेषः। चाहिनीपतिः सेनापतिः समुद्रश्च । तन्त्र समितौ शस्त्रप्रहारोत्पतधिरस्य सेनापतेरेव वर्णनं प्रकृतमिति प्रकृताप्रकृतः श्लेषः । यथावा- त्रातः काकोदरो येन द्रोग्धापि करुणात्मना । पूतनामारणाख्यातः स मेऽस्तु शरणं प्रभुः॥ नीतानामाकुलीभावं लुब्धैभूरिशिलीमुखैः । सदृशे वनवृद्धानां कमलानां त्वदीक्षणे ॥ . . असावुदयमारूढः कान्तिमानक्तमण्डलः । राजा हरति लोकस्य हृदयं मृदुलैः करैः ॥ इति । तत्राद्ये स्तोतव्यत्वेन प्रकृतयो रामकृष्णयोः श्लेषः । द्वितीये उपमानत्वेना- प्रकृतयोः पद्महरिणयोः श्लेषः । तृतीये राजा हरति लोकस्येति चन्द्रवर्णनन- स्तावे प्रकृतस्य प्रत्यग्नोदितचन्द्रस्याप्रकृतस्य नवाभिषिक्तस्य नृपतेः ऋषः । यदन्न प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्तिमूलध्वनिमिच्छन्ति प्राञ्चः तत्प्र- कृताप्रकृताभिधानमूलकस्योपमादेरलंकारस्य व्यङ्ग्यत्वाभिप्रायं नत्वप्रकृतार्थ- तैरुगच्छत्कीलालं रुधिरं यस्य स वाहिनीपतिः सेनापतिः । तथा वाहिनीनां नदीनां पतिः समुद्रश्चेति । पक्षे कीलालं जलम् । समिती संग्रामेत्रात इति । येन करणायुक्तान्तःकरणेन द्रोहकर्तापि अदरों भयशून्यः काकस्त्रातो रक्षितो न तु हतः। स पवित्रनामा रणे ख्यातो विभू रामो मे शरणमस्वित्यर्थः । कृष्णपक्षे तु काकोदरः कालियसर्पः पूतनाया राक्षस्या मारणेन ख्यात इति शेषः ॥ नी- तानामिति ॥ दयितां प्रति नायकोक्तिः। तव ईक्षणे नेत्रे कमलानां पद्मानां हरिणानां च सदृशे स्त' इत्यन्वयः । कीदृशानाम् । वने जले अरण्ये च वृद्धि प्राप्तानाम् । तथा लुब्धैः लोभशीलैभूरिभिः शिलीमुखैः भ्रमरैराकुलीभावं व्याप्ततां नीतानामिति पद्मपक्षे । हरिणपक्षे तु लुब्धैः व्यावैः कर्तृभिः । भूरिशिलीमुखै- बर्बाणैः करणभूतैः। आकुलीभावं चपलता नीतानामित्यर्थः । 'मृगप्रभेदे कमलः' इति विश्वः ॥असाविति ॥ उदयं शैलमभिवृद्धिं च, रक्तं रक्तवर्णमनुरकं च, मण्डलं बिम्ब देशश्च, राजा चन्द्रो नृपश्च, मृदुलैरभिनवैरल्पैश्च, करैः किरणग्राह्यध- नैश्च ॥ प्रत्यग्रोदितेति ॥ अभिनवोदितेत्यर्थः । ननु प्रकरणेनाभिधाया नियम- नादप्रकृतार्थस्य व्यङ्ग्यखमेवेति कथं श्लेष इत्याशश्याह-यदिति ॥ अलंका- रस्येति ॥ नचैवं शब्दशत्तिमूलवस्तुध्वनेरुच्छेद इति वाच्यम् । 'शनिरशनिश्च तमुचैर्निहन्ति कुप्यसि नरेन्द्र यस्मै लम् । यत्र प्रसीदसि पुनः स भात्युदारो- ऽनुदारश्च ॥' इत्यत्र शनिविरुद्धरूपे प्रस्तुतेऽशनिशब्देनाभिधया प्रतीयमानेऽपित- . न्मूलकस्य विरुद्धावपि खदनुवर्तनाथमेकं कार्यं कुरुत इति वस्तुध्वनेरशनिशब्द...