पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः । [प्रस्तुतप्रशंसालंकारः २७ इति केचित् । उभयमपि शब्दालंकार इत्यन्ये । उभयमप्यर्थालंकार इति स्वाभिप्रायः । एतद्विवेचनं तु चित्रमीमांसायां द्रष्टव्यम् ॥६४॥ ५ ॥ अपस्तुतप्रशंसालंकारः २७ अग्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुताश्रया। एकः कृती शकुन्तेषु योऽन्यं शक्रान्न याचते ॥६६॥ यत्राप्रस्तुतवृत्तान्तवर्णनं प्रस्तुतवृत्तान्तावगतिपर्यवसायि तत्राप्रस्तुतप्रशं- सालंकारः1 अप्रस्तुतवृत्तान्तवर्णनेन प्रस्तुतावगतिश्च प्रस्तुताप्रस्तुतयोः सं- बन्धे सति भवति संबन्धश्च सारूप्यं सामान्यविशेषभावः कार्यकारणभावो वा संभवति । तत्र सामान्यविशेषभावे सामान्याद्विशेषस्य विशेषाद्वा सामा- वस्वावगतौ दैविध्यम् । कार्यकारणभावेऽपि कार्याकारणस्य कारणाद्वा कार्य- स्वावगती द्वैविध्यम् । सारूप्यात्तु एको भेद इत्यस्याः पञ्च प्रकाराः। यदाहु:- 'कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति । .. तदन्यस्य वचस्नुल्ये तुल्यखेति च पञ्चधा ॥' इति । तत्र सारूप्यनिवन्धनाऽग्रस्तुतप्रशंसोदाहरणं एकः कृतीति । अत्राप्र- स्तुतचातकस्य प्रशंसा प्रशंसनीयत्वेन प्रस्तुते तत्सरूपे श्वद्वेभ्यो याचनान्निवचे मानिनि पर्यवस्यति । यथावा--- नार्थयोरेव लिष्टलादिति भावः । केचिदलंकारसर्वखकारादयः॥ उभयम्- पीति ॥ सभङ्गाभङ्गश्लेषयमपीत्यर्थः। शब्दस्य परिवृत्त्यसहत्वेनान्वयव्यति- रेकाभ्यां तद्गतलाबधारणादिति भावः। अन्ये मम्मटभट्टानन्वभिप्रायस्यार्थालं- कारमध्यकथनादवगतस्यापि विशेषतः कथनमन्तरेण कथमुपपत्तिरित्याशझ्याह- एतदिति। यद्यप्युत्प्रेक्षाग्रन्थानन्तरं चित्रमीमांसान क्वापि दृश्यते तथाप्यय- माशय उन्नीयते। चमत्कारेऽर्थमुखप्रेक्षितादर्थालंकारत्वमिति। अनुप्रासयम- कादेस्तु न चमत्कारेऽर्थमुखप्रेक्षिलमिति न तेषामर्थालंकारत्वमपितु शब्दवै- चित्र्याच्छन्दालंकारखमेवेति ॥ ६४॥६५॥ इति श्लेषप्रकरणम् ॥ २६॥ अप्रस्तुतेति । सा अप्रस्तुतप्रशंसा । प्रस्तुताश्रया प्रस्तुतमाश्रयः प्राधान्येन तात्पर्य विषयो यस्यास्तथाभूता । प्रस्तुतपरमप्रस्तुतवर्णनमप्रस्तुतप्रशंसेत्यर्थः । एक इति ॥ कृती कुशलः । शकुन्तेषु पक्षिषु मध्ये। यश्चातकः शक्रादिन्द्रादन्यं न याचत इत्यर्थः ॥ कार्ये इति ॥ कार्य प्रस्तुते सति तदन्यस्य कारणस्य वचः प्रतिपादनं । निमित्ते कारणे प्रस्तुते सति तदन्यस्य कार्यस्य। एवं सामान्ये प्रस्तुते सवि तदन्यस्य विशेषस्य । विशेष प्रस्तुते सति तदन्यस्य सामान्यस्य । तुल्ये प्रस्तुते तदन्यस्य तत्सदृशस्येत्यर्थः। अन्यशब्दस्य प्रतिसंवन्धिपरत्वात् । तत्सरूपे तत्स: