पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

___ अप्रस्तुतप्रशंसालंकारः २७] अलंकारचन्द्रिकासहितः। ७९ आबद्धकृत्रिमसटाजटिलांसमित्ति- रारोपितो मृगपतेः पदवीं यदिश्वा। मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य। अन्न शुनकस्य निन्दा निन्दनीयत्वेन प्रस्तुते तत्मरूपे कृत्रिमबेषव्यवहा- रादिमात्रेण विद्वत्ताऽभिनयवति वैधेये पर्यवस्थति। यथावा-- अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः। कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ॥ अत्र कमलनालवृत्तान्तकीर्तनं तत्सरूपे बहिः खलेषु जाग्रत्सु भ्रातृपुत्रादि- भिरन्तः कलहं कुर्वाणे पुरुषे पर्यवस्यति । एवंच लक्ष्यलक्षणयोः प्रशंसा. शब्दः स्तुति निन्दास्वरूपाख्यानसाधारणकीर्तनमान्नपरो द्रष्टव्यः । सामान्य- निबन्धना यथा- विधाय वैरं सामर्षे नरोडरौय उदासते। प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽमिमारुतम् ॥ अन्न प्रागेव सामर्षे शिशुपाले रुक्मिणीहरणाद्वैरं दृढीकृतवता कृष्णेन तस्मिन्नुदासितुमयुक्तमिति वक्तव्येऽथे प्रस्तुते तत्प्रत्यायनार्थ सामान्यमभि- हितम् । यथावा--- सौहार्दस्वर्णरेखाणामुच्चावचभिदाजुषाम् । परोक्षमिति कोऽप्यस्ति परीक्षानिकवोपलः॥ अत्र यदि त्वं प्रत्यक्षमिव परोक्षेऽपि मम हितमाचरसि तदा त्वमुचमः सुहृदिति विशेषे वक्तव्यत्वेन प्रस्तुते सामान्यमभिहितम् ॥ विशेषनिबन्धना यथा- दशे ॥ आवद्धति आवद्धा याः कृत्रिमाः सटाः स्कन्धलोसानि तैजटिला व्याप्ता अंसभित्तिः स्कन्धदेशो यस्यैवंभूतः श्वा सुनको मृमपतेः सिंहस्य पदवी स्थानं यद्यारोपितः । तादृशसदायुक्तत्वेन सिंहसाम्यं प्रापित इत्यर्थः । तथापि मत्तानामिभानां गजानां कुम्भतटस्य पाटने विदारणे लम्पटस्य व्यसनिनो हरिणा- नामधिपस्य नादं सिंहनादं कथं करिष्यतीत्यर्थः ।। अभिनयवल्सनुकुर्वतीति सप्त- म्यन्तम् । वैधेये मूर्ख । 'मूर्खवैधेयबालिशाः' इत्यमरः ॥ अन्तरिति ॥ छिद्राणि रन्ध्राणि दोषस्थानानि च । कण्टकाः शूकाः खलाश्च । भकुराः भङ्गशीलाश्च । गुणाः सौभाग्यादयस्तन्तश्च । अत्र स्तुतिनिन्दोदासीनस्वरूपाख्यानमात्रमिति लिष्टविशेषणलमिति च भेदः॥एवंचेति ॥ उक्तोदाहरणेषु प्रस्तुतपरस्याप्र. स्तुतवर्णनस्य त्रिरूपत्वे सतीत्यर्थः ।। विधायेति ॥ ये नरा मनुष्याः सक्रोधेरौ शत्रौ वैरं विधायोदासीना भवन्ति ते कक्षे तृणे उदर्चिषमा निक्षिप्याभिमारुतं . पवनाभिमुखं शेरते। निन्द्रां कुर्वन्तीत्यर्थः ॥ सौहार्देति ॥ सौहार्दानि मैत्राण्येव