पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७
केनोपनिषत्

स तस्मिन्नेवाकाश स्त्रियमाजगाम बहुशोभमानामुमा हैमवतीम् ।
वां होवाच किमेतद्यक्षमिति ।) १२ ॥।

 तस्मिन्नेवाकशि इति । तस्मिन्नेव प्रदेशे हिमवत्पुर्वी वहुभिराभरणैः शोभ- मानां पार्वतीमिन्द्रानुग्रहाय प्रादुर्भूतां दृष्ट्वा तत्समीपमागत्य इयं सर्वे जानातीति मन्यमानः किमेतद्यक्षमिति पप्रच्छेत्यर्थः ॥ १२ ॥

इति तृतीयः खण्डः ।

हरिः ओम् । सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजथे महीयध्वम्
(३) इति । ततो हैव विदाञ्चकार ब्रह्मेति ।। १ ।।

 सा ब्रह्मति होवाचैति । ब्रह्मैव यक्षरूपेण युप्मन्मोहशमनीय प्रादुर्भूतम् ! अत:(१) ब्रह्मसम्बन्धिनि विजये निमित्त पूजां प्राप्त । अस्माभिरेव विजयः कृत इति दुरभिमानरत्यक्तव्य इत्यर्थः । ततो हैवेति । तदुपदेशादेव ब्रह्मेति ज्ञात- चानित्यर्थः ॥ १ ॥


१२. तस्मिन्नेव यत्र यक्षमासीत् तत्र । सम्यग्दर्शनयोग्यं समीपदेशमागल यदा यक्षाधिष्टितं स्थलमपश्यत् तदा तत्र न यक्षमासीत् | अपि तु चित् स्रीति भाव.] प्रथमं स्वीति प्रणम् । ततः करूणाशीतलकटाक्षशालिदिन्यरूपस्य | तत उमा मदतीति । तां होवाच । भक्तया श्रद्धया च तां प्रणिपाभिवाद्य तयाऽनुमत उदाच । किमिति । विमस्य स्वरूपम् । किञ्चास्य अत्र प्रादुर्भावप्रयोजनमिति || १२ }}

इति तृतीयखण्डचिन्तना ।

१. सा ब्रह्मेति । सेति ब्राह्मणे न पठयदे । किंखरूपमियस्योत्तरं ब्रह्मेति । किं प्रादुर्भाव- प्रयोजनमित्यस्य ब्रह्मण इयादि । भवनां प्रतिबोधनमेव प्रयोजनमिति भावः । भाष्ये अत इति । अस्य अनन्तरवाक्यारम्भे: अस्माभिरेवेन्यतः पूर्व पाठ उचितः । प्राप्ततेति मध्यमवहुवचनम् । मूले अमहीयमिति छेदः । महोयध्यमित्येव चेन् अइभावान्दसः । ब्राह्मणे तु महीयध्वे इति लडेय भूयते । तदुपदेशादिति । तत इति नानन्तर्यमुच्यते । अपि तु 'सा उचाच' इत्युक्तं तस्या वचनमित्यभिप्रायः । यद्धार्थलब्धोऽयमर्थः ।। १ ।।