पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

148 धर्मस्थीयम् आधि १ अध्या 188 1 धित.ना चामूढसंज्ञानानन्तरगारकृतास्सिद्धयेयु.। साहसानुप्रवेशकलहविवाहराजनियोगयुक्ता पूर्वरात्रव्यव हारिणां च रात्रिकृतासिद्धयेयु । सार्थव्रजाश्रमव्याधचाराणां मध्येष्वरण्यचराणामरण्यकृता- स्सिद्धयेयुः। गूढाजीविषु चोपधिकृतास्सिद्धयेयु. : मिथस्समवाये चोपह्ररकृता सिद्धयेयु । अतोऽन्यथा न सि- द्धयेयुः । अपाश्रयवद्भिश्च कुता , पितृमाता पुत्रेण पिता पुत्रवता निष्कुलेन भ्रात्रा, कनिष्ठेनाविभक्तांशेन, पतिमत्या पुत्रवत्या च स्त्रिया, दासाहितकाभ्या, अप्राप्तातीतव्यवहाराभ्यां, अभि शस्तप्रव्रजितव्यङ्गव्यसनिभिश्चान्यत्र निसृष्टव्यवहारेभ्य । तत्रापि क्रुद्धेनार्तेन मत्तेनोन्मत्तेनाप गृहीतेन वा कृता व्यवहा रा न सिद्धयेयुः । कर्तृकारयितृश्रोतृणां पृथग्यथोक्ता दण्डाः । स्वे स्वे तु वर्गे देशे काले च स्वकरणकृतासम्पूर्णचाराश्शुद्ध देशा दृष्टरूपलक्षणप्रमाणगुणास्सर्वव्यवहारास्सिदध्येयुः । पश्चिमं त्वेषां करणमादेशाधिवर्जं श्रद्धेयु । 189 2 इति व्यवहारस्थापना । ___ 1 च मूढ चारणम. पितृमता' पाठस्सुनेय 4 परतो व्यवहारज्ञ स्वतन्त्र पितरावृते । जीवन स्वतन्त्रस्स्याज्जरयाऽपि सम- न्वितः ॥ कात्यायनी माधवीयव्यवहारकाण्डे. पित्रा' इति सुपठम् . चेषा. श्रदेयमू.