अथ वाऽऽर्यमाधाय कुलबन्धनतूर्याणामापदि निष्क्रयं
चाधिगम्य बालं साहाययदातारं वा पूर्वं निष्क्रीणीरन् ॥
सकृदात्माधाता निष्पतितः सीदेत् । द्विरन्येनाहितकः ।
सकृदुभौ परविषयाभिमुखौ ॥
वित्तापहारिणो वा दासस्यार्यभावमपहरतोऽर्धदण्डः । निष्प
तितप्रेतव्यसनिनामाधाता मूल्यं भजेत ।।
प्रेतविण्मूत्रोच्छिष्टग्राहिणा[१]माहितस्य नग्नस्तापनं दण्डप्रेषण
मतिक्रमणं च स्त्रीणां मूल्यनाशकरम् । धात्रीपरिचारिकार्ध-
सौतिकोपचारिकाणां च मोक्षकरम्। सिद्धमुपचारकस्याभिप्रजा.
तस्य अपक्रमणम् ॥
धात्रीमाहितिकां वाकामां स्वरशामधिगच्छतः पूर्वस्साहस
दण्डः । परवशां मध्यमः । कन्यामाहितकां वा स्वयमन्येन वा
दूषयतः मूल्यनाश शुल्कं तद्विगुणश्च दण्डः ॥
आत्मविक्रयिणः प्रजामार्यां विद्यात् ॥
आत्माधिगतं स्वामिकर्माविरुद्धं लभेत, पित्र्यं च दायम् ॥
मूल्येन चार्यत्वं गच्छेत् ॥
तेनोदरदासाहितकौ व्याख्यातौ ॥
प्रक्षेपानुरूपश्चास्य निष्क्रयः । दण्डप्रणीतः कर्मणा दण्ड-
मुपनयेत् ।।
१ग्राहणमा
- ↑ पाहणमा.