प्रक्रान्ते तु कर्मणि स्वस्थस्यापक्रमतो द्वादशपणो दण्डः ।
न च प्राकाम्यमपक्रमणे ।।
चोर त्वभयपूर्व[१] कर्मणः प्रत्यंशेन ग्राहयेद्दद्यात् प्रत्यं-
शमभय च । पुनस्स्तेये प्रवासनमन्यत्र गमन च । महापराधे
तु दूष्यवदाचरेत् ।
याजकाः त्वप्रचारद्रव्यवर्जं यथासंम्भाषितं वेतनं समं वा
विभजेरन् । अनिष्टोमादिषु च ऋतुषु दीक्षणार्ध्वं याजक-
स्सन्नः पञ्चममंशं लभेत॥
सोमविक्रयादूर्ध्वं चतुर्थमंशम् ॥
मध्यमोपसद प्रवर्ग्योद्वासनादूर्ध्वं द्वितीयमंशम्[२] ।
मयादूर्ध्वमर्धमंशम् ।
सुत्ये प्रातस्सवनादूर्ध्वं पादोनमंशम् ।
मध्यन्दिनात् सावनादूर्ध्वं समग्रमंशं लभेत । नीता हि द-
क्षिणा भवन्ति ।
बृहस्पतिसवनव[३]र्ज प्रतिसवनं हि दक्षिणा दीयते । तेना-
हर्गणदक्षिणा व्याख्याताः।
सन्नानामादशाहोरात्राच्छेषभृताः कर्म कुर्युः । अन्ये वा
स्वप्रत्ययाः।
कर्मण्यसमाते तु यजमानस्सीदेत् , ऋत्विज. कर्म समापय्य
१पूर्व २ लभेत ३ ववर्ज