पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
196
३ अधि. १९ अध्या.
धर्मस्थीयम्

 सक्थिग्रीवाभञ्जने नेत्रभेदने वा वाक्यचेष्टाभोजनोपरोधषु[१] च मध्यमस्माहसदण्ड , समुन्थानव्ययश्च[२] देशकालातिपत्तौ क ण्टकशोधनाय नीयेत ।
 महाजनस्यैकं घ्नतो प्रत्येकं द्विगुणो दण्डः ।
 "पर्युषितं[३] कलहेऽनुप्रवेशो वा नाभियोज्यः" इसाचार्या ।
 " नास्त्यपकारिणो मोक्षः" इति कौटिल्यः[४]
 "कलहे पूर्वागतो जयत्यक्षममाणो हि प्रधावति" इत्या चार्या।
 'न' इति कौटिल्य । पूर्व पश्चाद्वाऽऽगतस्य[५] साक्षिणः प्रमाणम् । असाक्षिके घात कलहोपलिङ्गनं वा।
 घाताभियोगमप्रतिब्रुवतस्तदहरेव पश्चात्कारः ।
 कलहे द्रव्यमपहरतो दशपणो दण्डः ।
 क्षुद्रकद्रव्यहिंसायां तच्च तावच्च दण्डः ।
 स्थूलकद्रव्यहिंसायां तञ्च द्विगुणश्च दण्डः ।
 वस्त्राभरणहिरण्यसुवर्णभाण्डहिंसायां तच्च पूर्वश्च साहसदण्डः।
 [६]परकुडयमभिघातेन क्षोभयतस्त्रिपणो दण्डः। छेदनभेदने

षट्पणः प्रतीकारश्च ।



  1. भजनोपकारोवरोधेषु.
  2. “दुखमुत्पादयेधस्तु स समुत्थानज व्ययम् । दाप्यो दण्ड च--" इति याज्ञवल्क्य
  3. षित..
  4. ट,
  5. मिगतस्य,
  6. याश्य II, 226-9