पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
७८ प्रक.]
209
उपानपातप्रतीकार

 धूषिकभये मार्जारनकुलोत्सर्जः[१] ! 2634
 तेषां ग्रहणहिंसायां द्वादशपणो दण्ड । शुनामनिग्रहे च
अन्यत्रारण्यचरेभ्य ।
 स्नुहिक्षीरलिप्तनि धान्यानि विसृजत्, उपनिषद्योगयुक्तानि
वा मूषिककरं वा प्रयुञ्जीत ।
 शान्तिं वा सिद्धतापसाः कुर्यु ।
 पर्वसु च मूषिकपूजा कारयेत्
 तेन शलभपक्षिक्रिमिभयप्रतीकारा व्याख्याताः ।
 व्याळभये मदनरसयुक्तानि पशुशवानि प्र[२] सृजेत्। मदनको- 264 1
द्रवपूर्णान्यौदर्याणि वा।
 लुब्धका श्वगणिनो वा कूटपञ्जरावपातैश्चरेयुः ।
 आवरणिनः शस्त्रपाणयो व्याळानभिहन्यु. । अनभिसर्तुर्द्वा-
दशपणो दण्डः । स एव लाभो व्याळघातिनः ।
 पर्वसुश्च पर्वतपूजाः कारयेत् ।
 तेन मृगपक्षिसङ्घग्राहप्रतीकारा व्याख्याताः ।
 [३]सर्पभये मन्त्रैरोषधिभिश्च जाङ्गलीविदश्चरेयुः। सम्भूय 263 8

  1. त्सर्ग
  2. वि
  3. 3 जम कोशा या समुद्धृतोऽयं पाठ । म काशे स्वयं पाठ (विसृजेत् " (207, 16) इत्यनन्तर पठितोऽस्ति । पर तु “मदन ” इत्यादि. "व्याख्याता" इत्यन्ती ग्रन्धस्तत्र न दृश्यते.