पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
218
[४ अधि. ४ अध्या.
कण्टकशोधनम्

266 5 हारिण वा रसदं मन्येत तं मत्री ब्रूयात्--" असौ मे

शत्रुस्तस्योपघात' क्रियतामय चार्थ. प्रतिगृह्यताम्" इति ।
स चेत्तथा कुर्यात् , “ रसदः” इति प्रवास्येत ।
 तेन मदनयोगव्यवहारी व्याख्यातः !
 यं वा नानालोहक्षाराणां अङ्गारभस्त्रासंदंशमूषिका[१] धिकर
णीविटङ्क[२] मूषाणामभीक्ष्णं क्रे[३] तारं मूषीभ[४]स्मधूमदिग्धहस्तव-
स्त्रलिङ्गं कर्मारोपकरणसंवर्गं कूटरूपकारकम् मन्येत, तं सत्री
शिष्यत्वेन संव्यवहारेण चानुप्रविश्य प्रज्ञापयेत् । प्रज्ञातः
"कुटरूपकारकः” इति प्रवास्येत ।
 तेन रागस्यापहर्ता कूटमुवर्णव्यवाहारी च व्याख्यातः ।।
 आरब्धारस्तु हिंसायां गूढाजीवास्त्रयोदश ।
 प्रवास्या निष्क्रयाथै वा दधुर्दोषविशेषतः ।।

इति कण्टकशोधने गूढाजीविनां रक्षा चतुर्थोऽध्यायः
आदित एकाशीतिः.



८० प्रक. सिद्धव्यञ्जनैर्माणवप्रकाशनम्.



267'3 सत्रिप्रयोगाचं सिद्धव्यञ्जना माणवा माणवविद्याभिः

प्रलोभयेयुः प्रस्थाप[५] नान्तर्धानद्वारापोहमन्त्रेण प्रतिरोधकान्,
संवननमन्त्रेण पारताल्पकान् ।

  1. * मुष्टिका.
  2. रणीबिम्बटक.
  3. क्षणक्रे.
  4. मषी
  5. प्रस्वाप.