3292 प्राप्तकर्मोपघातकाले इति; विगृहीतस्यान्यतो वा शक्ष्यामि जनपदमपवाहयितुम् " इति विग्रहे स्थितो वृद्धिमानिष्ठेत् ॥
यदि वा मन्येत- "न में शक्तः परः कर्माण्युपहन्तुं; नाह तस्य कर्मोपघाती वा; व्यसनमस्य श्ववराहयोरिव कलहे वा; स्वर्कमानुष्ठानपरो वा वर्धिष्ये' इत्यासनेन वृ- द्धिमातिष्ठेत् ॥
330'5 यदि वा मन्येत---" यानसाध्यः कर्मोपघातः शत्रोः प्रतिविहितस्वकर्मारक्षश्चास्मि" इति यानेन वृद्धिमातिष्ठेत् ॥
यदि वा मन्येत -- " नास्मि शक्तः परकर्माण्युपहन्तुं, स्वकर्मोपघात वा त्रातुम्" इति बलवत्तमाश्रितः[१] स्वकर्मानुष्ठा- नेन क्षयात् स्थानं स्थानावृद्धिं चाकाङ्क्षेत ।।
यदि वा मन्येत्त ---" सन्धिनैकतः स्वकर्माणि प्रवर्तयिष्यामि विग्रहेणैकतः परकर्माण्युपहनिष्यामि" इति द्वैधीभावेन वृद्धिमातिष्ठेत् ।।
एवं षइभिर्गुणैरेते. स्थितः प्रकृतिमण्डले ।
पर्येषेत[२] क्षयात् स्थानं स्थानाद्वृद्धिं च कर्मसु ॥
इति षाड्गुण्ये सप्तमेऽधिकरणे षाइगुण्यसमुद्देशः
क्षयस्थानवृद्धिनिश्चयश्च प्रथमोऽध्यायः
आदितो नवनवति.