पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
276
[७ अधि. ५ अध्या.
षाड्गुण्यम्

 बलवन्तभन्यायवृत्तिं दुर्बलं वा न्यायवृत्तिमिति ?----बलवन्तमन्यायवृतिं यायात् । बलवन्तमन्यायवृत्तिं अभियुक्तं प्रकृतयो नानुगृह्णन्ति निष्पातयन्यमित्रं वाऽस्य भजन्ते । दुर्बलं तु न्यायवृत्तिमभियुक्तं प्रकृतयः परिगृह्णन्ति, अनुनिष्पतन्ति वा।

 अप[१]क्षेपेण हि सतामसतां प्रग्रहेण च ।
 अभूतानां च हिंसानां अधर्म्णां प्रवर्तनैः ॥

 उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः ।
 अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च ॥

 अकार्याणां च करणैः कार्याणां च प्रणाशनैः ।
 अप्रदानैश्च देयानां अदेयानां च साधनैः ॥

 अदण्डनैश्च दण्डयानां दण्डयानां चण्डदण्डनैः[२]
 अग्राह्याणामुपग्राहैर्ग्राह्याणां चानभिग्रहैः ॥

 अनर्थ्यांनां च करणैरर्थ्यानां च विघातनैः ।
 अरक्षणैश्च चोरेभ्यः स्वानां[३] च परिमोषणैः ॥

 पातैः पुरुषकाराणां कर्मणां गुणदूषणैः ॥
 उपधातैः प्रधानानां मान्यानां चावमाननैः ।।

 विरोधनैश्च वृद्धानां वैषम्येणानृतेन च ।
 कृतस्याप्रतिकारेण स्थितस्याकरणेन च ॥

 राज्ञः प्रमादालस्याभ्यां योगक्षेमविधावपि ।

 प्रकृतीनां क्षयो लामो वैराग्यं चोपजायते ॥



  1. अव.
  2. मदण्डयाना च दण्डनैः
  3. स्वय.