नेति कौटिल्य -चिरादल्पो महासारस्य क्रेता विद्यते ।
प्रभूतस्सातत्यादल्पसारस्य ।
एतेन वणिक्पथो व्याख्यातः ।
तत्रापि---“वारिस्थलपथयोर्वारिपथः श्रेयान् , अल्पव्यय-
व्यायामः प्रभूतपण्योदयश्च" इत्याचार्याः ।
नेति कौटिल्यः-संरुद्धगतिरसार्वकालिकः प्रकृष्टमययोनि-
र्निष्प्रतिकारश्च वारिपथ । विपरीतः स्थलपथः ।
वारिपथे तु कूलसंयानपथयोः कूलपथः पण्यपट्टणबाहुळ्या
च्छे्यान्नदीपथो वा सातत्याद्विषह्याबाधत्वाच्च ।।
स्थलपथेऽपि-"हैमवतो दक्षिणापथाच्छ्रेयान् हस्त्यश्वगन्धद-
न्ताजिनरूप्यसुवर्णपण्यास्सारवत्तरा" इत्याचार्या ।
नेति कौटि[१]ल्य'-कम्बळाजिनाश्वपण्यवर्जाः शङ्खवज्रमणि-
मुक्तास्सुवर्णपण्याश्च प्रभूततरा दाक्षिणापथे ।
दक्षिणापथेऽपि बहुखनिस्तारपण्य. प्रसिद्धगतिरल्पव्यायामो
वा वणिक्पथः श्रेयान् । प्रभूतविषयो वा फल्गुपण्यः।
तेन पूर्वः पश्चिमश्च वणिक्पथो व्याख्यातः ।
तत्रापि चक्रपादपथयोश्चक्रपथो विपुलारम्भत्वाच्छ्रेयान् देश
कालसम्भावनो वा खरोष्ट्रपथः ।
आभ्यामंसपथो व्याख्यातः।
- ↑ ट