कुल्यानप्यस्य स्वेषु पात्रेषु स्थापयेत् ।
कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत्। एवमस्य दण्डोपनताः
पुत्रपौत्राननुवर्तन्ते ।
यस्तूपनतान् हत्वा बध्वा वा भूमिद्रव्यपुत्रदारानभिमन्येत,
नत्योद्विग्नं मण्डलं अभावायोत्तिष्ठते। ये चास्यामात्यास्त्वभूमिष्वा-
युक्तास्ते चास्योद्विमा मण्डलमाश्रयन्ते । स्वयं राज्यं प्राणान्
वाऽस्याभिमन्यन्ते ।
स्वभूमिषु च राजानः तस्मात्साम्नाऽनुपालताः ।
भवन्यनुगुणा राज्ञः पुत्रपौत्रानुवर्तिनः ॥
इति षाड्गुण्ये दण्डोपनायिवृत्तं षोडशोध्याय
आदितश्चतुर्दशशतः
१२२-१२३ प्रक. सन्धिकर्म, सन्धिमोक्षश्च
शमस्सन्धिस्समाधिरित्यकोर्थः । राज्ञां विश्वासोपगमः
शमस्सन्धिस्समाधिरिति।
सत्यं शपथो वा चालसन्धिः । प्रतिभूः प्रतिग्रहो वा
स्थावर ' इत्याचार्याः ।
नेति कौटिल्यः-सत्यं वा शपथो वा परत्रेह च स्थावर- 8817
स्सन्धि ; इहार्थ एवं प्रतिभूः प्रतिग्रहो वा बलापेक्षः |