पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०-१६१५क.]
381
भेदोपदानानि, उपांशुदण्डश्च

अनिशं हि ते[१] सिद्धव्यञ्जनं रात्रौ तीक्ष्णा प्रवासयेयुः। तत्त- 458 4 द्वयञ्जनाः[२] प्रक्रोशयु:---." असौ ब्रह्महा ब्राह्मणीजारश्च" इति।

कार्तान्तिकव्यजनो वा कन्यामन्येन वृतामन्यस्य प्ररूपयेत्-
"अमुष्य कन्या राजपत्नी राजप्रसविनी च भविष्यति; सर्व-
स्वेन प्रसह्य वैनां लभस्व" इति । अलभ्यमानायां परपक्षमुद्धर्ष-
येत् । लब्धायां सिद्ध कलह ।

 

भिक्षुकी वा प्रियभार्य मुख्यं ब्रूयात्-" असौ ते मुख्यो
यौवनोद्रिक्तो[३] भार्यायां मां प्राहिणोत् । तस्याहं भयाल्ल्लेख्यमाभ-
रणं गताऽस्मि ; निर्दोषा ते भार्या गूढमस्मिन्प्रतिकर्तव्यमहमपि
तावत् पतिपत्स्यामि' इति । एवमादिषु कलहस्थानेषु स्वय-
मुत्पन्ने वा कलहे तीक्ष्णैरुत्पादिते वा हीनपक्षं राजा कोशद-
ण्डाभ्यामुपगृह्य विगुणेषु विक्रमयेदपवाहयेद्वा ।

 सङ्घेष्वेवमेकराजो वर्तेत । सङ्घाश्चाप्येवमेकराजाः तेभ्योऽति- संघानेभ्यो रक्षयेयुः।

सङ्घ्यमुख्यश्च सङ्घेषु न्यायवृत्तिहितः मियः ।  4593
दान्तो युक्तजनस्तिष्ठेत्सर्वाचित्तानुव[४]र्तकः ॥

                  इति सङ्घवृत्ते भेदोपादानानि, उपांशुदण्डश्च प्रथमोध्याय ।                                     आदितः पञ्चत्रिंशच्छत । एतावता कौटिलीयस्यार्थ-                                       शास्त्रस्य सङ्घवृत्तमेकादशमधिकरणं समाप्तम्



  1. 1 श्रीनगृहीते.
  2. 2 ततस्तद्वयजना..
  3. 3 यौवनोत्सितो.
  4. 4 चिन्तानु