461 1
बलीयसाऽभियुक्तो दुर्बलस्सपुत्रा[१]नुपणतो वेतसधर्मा तिष्ठेत
"इन्द्रस्य हि स प्रणमति, यो बलीयसो नमति" इति भारद्वाजः
"सर्वसन्दोहेन बलानां युध्येत; पराक्रमो हि व्यसन-
मपहन्ति ; स्वधर्मश्चैष क्षत्रियस्य; युद्ध जयः पराजयो वा" इति विशालाक्षः ॥ नेति कौटिल्य -सर्वत्रानुप्रणतः कूलैडक इव निराशो जीविते वसति । युध्यमानश्चाल्पसैन्यस्समुद्रामिवाप्लवोऽवगाह- मानस्सीदति । तद्विशिष्टं तु राजानमाश्रितो दुर्गमविषह्यं वा चेष्टेत । त्रयोऽभियोक्तारो धर्मासुरलोभविजयिन इति ॥
तेषामभ्यवपत्त्या धर्मविजयी तुष्यति; तमभ्यवपद्ये+-त ॥
परेषामपि भयात् भूमिद्रव्यहरणेन लोभविजयी तुष्यति ,
तमर्थनाभ्यवपद्येत ॥
भूमिद्रव्यपुत्रदारप्राणहरणेन असुरविजयी तं भूमिद्रव्याभ्या- मुपगृह्याग्राह्यः प्रतिकुर्वीत ॥ 462 2 तेषामन्यतममुत्तिष्ठमानं सन्धिना [२] मन्त्रयुद्धेन कूटयुद्धेन वा प्रतिव्यूहेत । शत्रुपक्षस्य सामदानाभ्या, स्वपक्षं भेददण्डा- भ्यां दुर्ग राष्ट्र स्कन्धावारं वाऽस्य गूढाश्शस्त्ररसाग्निभिस्सा-