पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
428
[१५ आधि १ अध्या.
तन्त्रयुक्ति.

5168   एवं वर्तितव्यमित्युपदेश.---"धर्मार्थाविरोधेन कामं सेवेत

न निस्सुखस्स्यात् "" इति ।

 एवमसावाहेत्यपदेशः-“मन्त्रिपरिषदं द्वादशमात्यान् कुर्वी-

तेति मानवाः; षोडशेति बार्हस्पत्याः; विंशतिमित्यौशनसाः3;

यथासामर्थ्यामिति कौटिल्यः" इति।

 उक्तेन साधनमतिदेशः----" दत्तस्यापदानमृणादानेन व्या-

ख्यातम्" इति ।

 वक्तव्येन साधनं प्रदेश -- “सामदानभेददण्डैर्वा यथापत्सु

व्याख्यास्यामः इति ।

 दृष्टेनादृष्टस्य साधनमुपमानम्---"निवृत्तपरिहारान् पितेवा-

नुगृह्णीयात् "" इति ।

 यदनुक्तमर्थादापद्यते साडर्थापत्तिः --" लोकयात्राविद्राजान-

मात्मप्रकृतिसम्पन्नं प्रियहितद्वारेणाश्रयेत नाप्रियहितद्वारेणा-

श्रयेतेत्यर्थादापन्नं भवति" इति ।

5177   उभयतोहेतुमानर्थस्संशयः-- क्षीणलुब्धप्रकृतिमपचरित-

प्रकृतिं वा" इति ।


अधि, I,   अध्या 7

अधि III,   अध्या. 16

5 अधि.I,   अध्या. 1

7अधि. VII,   अध्या. 5

अधि I,   अध्या 15

4 अधि. VII,   अध्या 14

भधि. V,   अध्या 4