एतत् पृष्ठम् परिष्कृतम् अस्ति
१४० प्रक]
431
तन्त्रयुक्तय
अनेन चानेन चेति समुच्चयः -- " स्वसञ्जातः पितृबन्धूनां 519 9 च दायादः' इति ।
अनुक्तकरणमूह्यम्---" यथावदाता प्रतिगृहीता च नोपहतौ
स्यातां तथाऽनुशयं कुशलाः कल्पयेयुः इति ।
एवं शास्त्रामिदं युक्तं एताभिस्तन्त्रयुक्तिभिः ।
अवाप्तौ पालने चोक्तं लोकस्यास्य परस्य च ॥
धर्ममर्थं च कामं च प्रवर्तयति पाति च ।
अधर्मानर्थविद्वेषानिदं शास्त्रं निहन्ति च ॥
येन शास्त्रं च शस्त्रं च नन्दराजगता च भूः ।
अमर्षेणोद्धृतान्याशु तेन शास्त्रमिद कृतम् ॥
इति तन्त्रयुक्तौ पञ्चदशेऽधिकरणे तन्त्रयुक्तय प्रथमोऽध्यायः ।
आदितः पञ्चाशच्छत्ततमोऽध्यायः । एतावता
कौटलीयस्यार्थशास्त्रस्य तन्त्रयुक्ति
पञ्चदशमधिकरणं समाप्तम्
दृष्ट्वा विपतिपत्तिं बहुधा शास्त्रेषु भाष्यकाराणाम् । 5206
स्वयमेव विष्णुगुप्तश्चकार सूत्रं च भाष्यं च ॥
अधि III, अध्या. 7 अधि. III, अध्या. 16