पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
441
चाणक्यसूत्राणि

187 अविश्वस्तेषु विश्वासो न कर्तव्यः ।
188 विषं विषमेव सार्वकालम् ।
189 अर्थसमादाने वैरिणां सङ्ग एव न कर्तव्यः ।
190 अर्थसिद्धौ वैरिणं न विश्वसेत् ।
191 अर्थाधीन एव नियतसबन्धः ।
192 शत्रोरपि सुतस्सखा रक्षितव्य ।
193 यावच्छत्रोश्छिद्रं पश्यति तावद्धस्तेन वा स्कन्धेन वा वाह्यः।
194 शत्रु छिद्रे परिहरेत् ।
195 आत्मच्छिद्रं न प्रकाशयेत् ।
196 छिद्रप्रहारिणश्शत्रवः ।
197 हस्तगतमपि शत्रुं न विश्वसेत् ।
198 स्वजनस्य दुर्वृत्तं निवारयेत् ।
199 स्वजनावमनोपि मनस्विनां दुःखमावहति ।
200 एकाङ्गदोषः पुरुषमवसादयति ।
201 शत्रुं जयति सुवृत्तता।
202 निकृतिप्रिया नीचाः ।
203 नीचस्य मतिर्न दातव्या ।
204 तेषु विश्वासो न कर्तव्यः ।
205 सुपूजितोपि दुर्जनः पीडयत्येव !
206 चन्दनादीनपि दावाऽग्निदहत्येध !
207 कदाडपि पुरुषं नावमन्येत ।
208 क्षन्तव्यमिति पुरुषं न बाधेत ।
209 भर्त्राऽधिकं रहस्युक्तं वक्तुमिच्छन्त्यबुद्धयः ।
210 अनुरागस्तु फलेन सूच्यते। .

प्रहरेत. इति सपाठ हितेन. 1 अविस्तब्धधु

56