“नेति” पिशुनः । मन्त्रिणो हि व्यवहितमर्थे वृत्त
मवृत्तं वा पृष्टमनादरेण ब्रुवन्ति प्रकाशयन्ति वा स दोषः ।
तस्मात्कर्मसु ये येष्वभिप्रेतास्तैस्सह मन्त्रयेत् । तैमन्त्रयमाणो
हि मन्त्रबुद्धि गुप्तिं च लभत इति ।
“न” इति कौटिल्यः । अनवस्था ह्येषा । मन्त्रिभिस्त्रिभि
श्चतुर्भिव सह मन्त्रयेत ।
मन्त्रयमाणो ह्येकेनार्थकृच्छ्रेषु निश्वयं नाधिगच्छेत् । एकश्च
मन्त्री यथेष्टमनवग्रहश्चरति ।
द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यामवगृह्यते । विगृ
हीताभ्यां विनाश्यते ।
त्रिषु[१] चतुर्षु वा नैकान्तं कृछ्रेणोपपद्यते महादोषम् ।
उपपन्नं[२] तु भवति । ततः परेषु कृछ्रेणार्थनिश्चयो गम्यते ।
मन्त्रो वा रक्ष्यते ।
देशकालकार्यवशेन त्वेकेन सह द्वाभ्यामेको वा यथासामथ्र्ये
मन्त्रयेत ।
कर्मणामारम्भोपायः, पुरुषद्रव्यसम्पत्, देशकालविभागः, वि-
निपातप्रतीकारः, कार्यसिद्धिरिति पञ्चाङ्गो मन्त्रः ।
तानेकैकशः पृच्छेत् समस्तांश्च ।।
हेतुभिश्चैषां मतिप्रविवेकान् विद्यात् । अवाप्तार्थः कालं
नातिक्रामयेत् ।
पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/५५
पुटमेतत् सुपुष्टितम्
28
[१ अधि. १५ अध्या,
विनयाधिकारिकम्