मन्येत । वाक्यमनिष्ठं सहेत । स्त्रियः पानं च वर्जयेत् ।
एकश्शयीत । सुप्तमत्तयोर्हि भावज्ञानं दृष्टं, कृत्यपक्षोपजापम
कृत्यपक्षे गूढप्रणिधानं, रागाप[१]रागौ भर्तरि, रन्ध्रं च प्रकृतीनां
तापसवैदेहकव्यञ्जनाभ्यामुपलभेत । तयोरन्तेवासिभिश्चिकित्स
कपाषण्डव्यञ्जनोभयवेतनैर्वा । तेषामसम्भाषायां याचकमत्तों
न्मत्तसुप्रलापैः पुण्यस्थानदेवगृहचित्र[२]लेख्यसंज्ञाभिर्वा चारमुपलभेत । उपलब्धस्योपजापभुपेयात् । परेण चोक्तस्स्वासां प्रकृतीनां परिमाणं नाचक्षति ! “सर्वे वेद भवानिति" ब्रूयात् । कार्यसिद्धिकरं वा कार्यस्यासिद्धावुपरुध्यमानस्तर्कयेत् ।
किं भर्तुर्मे व्यसनमासन्नं पश्यन्, स्वं वा व्यसनं प्रातः
कर्तुकामः । पार्ष्णिग्राहासारावन्तःकोपमाटविकं वा समुत्थाप
यितुकामः; भित्रमाक्रन्दाभ्यां वा व्यापादयितुकामः; स्वं वा
परतो विग्रहमन्तःकोपमाटविकं वा प्रतिकर्तुकामः; संसिद्ध में
भर्तुर्यात्राकालमभिहन्तुकामः; सस्यकुप्यपण्यसङ्ग्रहं दुर्गकर्म बल-
समुत्थानं[३] वा कर्तुकामः; स्वसैन्यानां व्यायामदेशकालावाकाङ्क्षमाणः; परिभवप्रभादाम्यां वा संसर्गानुबन्धार्थी वा, मामुपरुणद्धीति ।।
ज्ञात्वा वसेदपसरेद्रा । प्रयोजनमिष्टमपेक्षेत[४] वा । शासनमनिष्टमुक्त्वा बन्धवधभयादपि विसृष्टो[५] व्यपगच्छेदन्यथा नियम्येत[६] ।
पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/५८
पुटमेतत् सुपुष्टितम्
१३ प्रक.]
31
दूतप्रणिधि