पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
62
[२ अधि. ७ अध्या:
अध्यक्षप्रचार.


 दिवसानुवृत्तो निसः।
 पक्षमाससंवत्सरलामो लाभः ।

691  

तयोरुत्पन्नो नित्योत्यादिको लाभोत्पादिक इति' ।
 व्ययसंजातादायव्ययविशुद्धा नीवी प्राप्ता चानुवृत्ता चेति ।
 एव कुर्यात्समुदयं वृद्धि चायस्य दर्शयेत् ।
 हृास व्ययस्य च प्राज्ञस्साधयेच्च विपर्ययम् ।।

इत्यध्यक्षप्रचारे समाहर्तृसमुदयप्रस्थापनं षष्ठोऽध्याय
आदित सप्तविशा.


२५. प्रक. अक्षपटले गाणनिक्याधिकारः.


694  अक्षपटलमध्यक्षः प्रत्यङ्मुखमुदङ्मुखं वा विभक्तोपस्थानं निवन्धपुस्तकस्थानं कारयेत् ।
 तत्राधिकरणानां.सङ्ख्यां, प्रचारसञ्जाताग्रं कर्मान्तानां द्रव्य- प्रयोगे वृद्विक्षयव्ययप्रयामव्याजीयोगस्थानवेतनावेष्टिप्रमाणं, र त्नसारफल्गुकुप्यानामर्घप्रतिवर्णकप्रतिमानमानोन्मानावामानभा - ण्डं देशग्रामजातिकुलसङ्घातानां धर्मव्यवहारचरित्रसंस्थान, रा- जोपजीविनां प्रग्रहमदेशभोगपरिहारभक्तवेतनलाभं, राज्ञश्च पन्नी- पुत्राणां रत्नभूमिलाभनिर्देशो 'त्पातिकप्रतीकारलाभ, मित्रामित्रा- णां च सन्धिविक्रमप्रदानादानानि', निबन्धपुस्तकस्थं कारयेत् ।


। इति व्ययः, साता. 2 प्राइमुख. 3 निर्देशौ. 4 दान,