पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
80
• अधि. ११ अध्या.
अध्यक्षप्रचार


 मातिना कृष्णा । नलतूला नलतूलवर्णा । कपिला वृत्तपु- च्छा च । इति धर्मजातयः ।
 चर्मणां मृदु स्निग्धं बहुलरोम च श्रेष्ठम् ।
 शुद्धं शुद्धरक्तं पद्मरक्तं च आविकं ; खचितं वानचित्रं खण्डसङ्घात्यं तन्तुविच्छिन्नं च कम्बलः ।
 कौचपकः' कुलमितिका सौमितिका तुरंगास्तरणं वर्णकं तलिच्छक बारवाण परिस्तोम समन्तभद्रकं च आविकम् ।
  पिच्छलमार्द्रमिव च सूक्ष्मं मृदु च श्रेष्ठम् ।।
 अष्टप्लौतिसङ्घात्या कृष्णा भिङ्गिसी वर्षवारणमपसारक इति नैपालकम् ।
 सम्पुटिका, चतुरश्रिका, लम्बरा, कटवानक, पावरक., सत्तलिकति मृगरोम ।
 वाङ्गकं श्वेतं स्निग्धं दुकूल, पौण्ड्रकं श्यामं मणिस्निग्धं ; सौवर्णकुड्यकं सूर्यवर्ण मणिस्निग्धोदकवानं चतुरश्रवानं व्यामिश्रवानं च।

एतेषामेकांशुकमर्धद्वित्रिचतुरंशुकमिति।
तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातम् ।
मागधिका पौण्डूिका सौवर्णकुड्यका च पत्रोर्णाः ।

नागवृक्षो लिकुचो वकुलो बटश्च योनयः ।


1 कौंचलक . 2 तलिन्धरुतल्पक इति व्याख्या. मध्यर्ध, पत्रोर्णाः,