पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

70 गणितसारसङ्ग्रहः

बहुमूलकालचवृद्धिमिश्राविभागानयनसूत्रम्—

विभजेवकालताडितमूलसमासेन फलसमासहतम् ।
कालाभ्यस्तं मूलं पृथक् पृथक् चादिशवृद्धिम् ॥ ३७ ॥

अत्रोद्देशकः ।

चत्वारिंशत्रिंशविंशतिपञ्चाशदत्र मूलानि ।
मासाः पञ्चचतुस्त्रिकषट् फलपिण्डश्चतुस्त्रिंशत् ॥ ३८ ॥

बहुमूलमिश्राविभागानयनसूत्रम्--

स्वफलैस्स्वकालभक्तैस्तधृत्या मूलमिश्रधनराशिम् ।
'छिन्द्यादंशं गुणयेत् समागमो भवति मूलानाम् ॥ । ३९ ॥

अत्रोद्देशकः ।

दशषत्रिपञ्चदशका वृद्धय इषवश्चतुस्त्रिषण्मासाः ।
मूलसमास दृष्टश्चत्वारिंशच्छतेन संमिश्रा ॥ ४० ॥

पधार्धषड्दशापि च साधीः षोडश फलानि च त्रिंशत् ।
मासस्तु पञ्च षट् वलु सप्ताष्ट दशाप्यशीतिरथ पिण्डः ॥ ४१ ॥

बहुकालमिश्राविभागानयनसूत्रम्

स्वफलैः स्वमूलभक्तैस्तधृत्या कालमिश्रधनराशिम् ।
'छिन्द्यादंशं गुणयेत् समागम भवति कलानाम् ॥ ४२ ॥

अत्रोद्देशकः ।

चत्वारिंशत्रिंशद्दिशतिपञ्चशदत्र मूलानि ।
दशषत्रिपञ्चदश फलमष्टादश कालमिश्रधनराशिः ॥ ४३ ॥

प्रमाणराशौ फलेन तुल्यमिच्छाराशिमूलं च तदिच्छाराशौ वृद्धिं


The ASS read छिन्द्यादशान् which does not seem to be correct.