पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

74 गणितसारसङ्ग्रहः॒

त्रिकशतयोगे दशभिर्मासैर्मुक्तं हि मूलं किम् ॥ ६५ ॥

बुद्धियुक्तहीनसमानमूलमिश्रविभागसूत्रम्--

कालवफलानाधिकरूपोहृतरूपयोगहतमिश्रे ।
प्रक्षेपो गुणकारः खफलोनाधकसमानमूलानि ॥ । ६६ ॥

अत्रोद्देशकः ।
त्रिकपञ्चकाष्टकशतैः प्रयोगतोऽष्टसहस्रपञ्चशतम् ।
विंशतिसहितं बुद्धिभिरुद्धृत्य समानि पञ्चभिर्मासैः ॥ ६० ॥

त्रिकषष्ट्राष्टकषया मासद्वितये चतुस्सहस्राणि ।
पञ्चाशद्विशतयुतान्यतोऽष्टमासकफलाढते सदृशानि ॥ ६८ ॥

द्विकपञ्चकनवकशते मासचतुष्क त्रयोदशसहस्रम् ।
सप्तशतेन च मिश्रा चत्वारिंशत्सह्याद्विसममूलानि ॥ ६९ ॥

सैकार्धकपर्धार्धकषडर्धकाशीतियोगयुक्तास्तु ।
माताष्टके षडधिका चत्वारिंशच्च षट्रतिशतानि ॥ ७० ॥

सङ्कलितस्कन्धमूलस्य मूलवृद्धिविमुक्तिकालानयनसूत्रम्--

स्कन्धाप्तमूलचितिगुणितस्कन्धेच्छाग्रघातियुतमूलं स्यात् ।
स्कन्धे कालेन फलं स्कन्धोद्धृतकालमूलहतकालः ॥ ७१ ॥

अत्रोद्देशक ।

केनापि संप्रयुक्ता षष्टिः पञ्चकशतप्रयोगेण ।
मासत्रिपञ्चभागात् सप्तोत्तरतश्च सप्तादिः ॥ ७२ ॥

तत्षष्टिसप्तमांशकपदमितिसङ्कलितधनमेव ।
दत्वा तत्सप्तकवृद्धि प्रादाच्च चितिमूलम् ।


• मिश्रः in the roading found in the MSS. ; मिश्रे is adopted as being core
maintactory capabioally.