पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 77

अत्रोद्देशकः ।

द्वाभ्यां त्रीणि त्रिभिः पञ्च पञ्चभिस्सप्त मानकैः ।
दाडिमस्रकपित्थानां फलानि गणितार्थवित् ॥ ९०(१/२) ॥

कपित्थात् त्रिगुणं ह्यत्र दाडिमं षड्गुणं भवेत् ।
क्रीत्वानय सरवे शीघ्र त्वं षट्सप्ततािभिः परैः ॥ ९१(१/२) ॥

दध्याज्यवीरघटैर्जिनबिम्बस्याभिषेचनं कृतवान् ।
जिनपॅरुषो द्वासप्ततिपलैस्त्रयः पूरिताः कलशाः ॥ ९२(१/२) ॥

द्वात्रिंशत्प्रथमघटे पुनश्चतुर्विंशतिईितीयघटे ।
षोडश तृतीयकलशे पृथक् पृथक् कथय मे कृत्वा ॥ ९३(१/२)॥

तेषां दधिघृतपयसां ततश्चतुर्विंशतिर्दूतस्य पलानि ।
षोडश पयःपलानि द्वात्रिंशद् दाधिपलानीह ॥ ९४(१/२) ॥

वृत्तिस्त्रयः पुराणाः पुंसश्वारोहकस्य तत्राप ।
सर्वेऽपि पञ्चषष्टिः कोचिद्भग्ना धनं तेषाम् ॥ ९५(१/२) ॥

सन्निहितानां दत्तं लब्धं पुंसा दशैव चैकस्य ।
के सन्निहिता भग्नाः के मम सञ्चिन्त्य कथय त्वम ॥ ९६(१/२) ॥

इष्टरूपाधिकहीनप्रक्षेपककरणसूत्रम् -
पिण्डोऽधिकरूपोनो होनोत्तररूपसंयुतः शेषात् ।
प्रक्षेपककरणमतः कर्नव्यं तैर्युता हीनाः ॥ ९७(१/२) ॥

अत्रोद्देशकः ।

प्रथमस्यैकांशोऽतो द्विगुणद्विगुणोत्तराद्भजन्ति नराः। चत्वारोऽसः कंस्स्यादेकस्य हि सप्तषष्टिरिह ॥ ९॥