पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

80 वछिकाकुट्टीकारः ।

इतः परं वछिकाकुइंकारगणितं व्याख्यास्यामः । कुट्टीकारे
वांछकागणतन्यायसूत्रम--

छित्वा छेदेन राशिं प्रथमफलमपोह्याप्तमन्योन्यभक्तं
स्थाप्योर्वाधर्यतोऽधो मतिगुणमयुजाल्पेऽवशिष्टे धनम् ।
छित्वाधः स्वपरिलोपर्युतहरभागोऽधिकाग्रस्य हारं
छित्वा छेदेन साग्रान्तरफलमधिकाग्रान्वितं हारघातम् । ११५(१/२) ॥

अत्रोद्देशकः ।

जम्बूजम्बीररम्भाकमुकपनसवर्द्धरहिन्तालताली-
पुन्नागानाद्यनेकद्रुमकुसुमफलैर्नम्रशाखाधिरूढम् ।
भ्राम्यदृङ्गाब्जवापीऽशुकपिककुलनानाध्वनिव्याप्तदिकं
पान्थाः श्रान्ता वनान्तं श्रमनुदममलं ते प्रविष्टाः प्रहृष्टाः॥ ११६(१/२) ॥

राशित्रिषष्टिः कदलीफलानां
सम्पीड्य संक्षिप्य च सप्तभिस्तैः ।
पान्यैस्त्रयोविंशतिभिर्विशुद्धा
राशेस्त्वमेकस्य वद प्रमाणम् ।। ११७(१/२) ॥

राशीन् पुनर्बादश दाडिमानां
समस्य संक्षिप्य च पञ्चभिस्तैः ।
पान्थैर्नरैर्विशतिभिर्निरेकै
भक्तांस्तथैकस्य वद प्रमाणम् ।। ११८(१/२) ॥

दृष्टाम्रराशीन् पथिको यथेक
त्रिशत्समूह कुरुते त्रिहीनम् ।