पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 83

विषमकुट्टीकारः ॥

इतः पर विषमकुट्टीकारं व्याख्यास्यामः । विषमकुट्टीकारस्य सूत्रम्--

मतिसङ्गणितौ छेदौ योज्योनत्याज्यसंयुतौ राशिहतौ ।
भिन्ने कुट्टीकारे गुणकारोऽयं समुद्दिष्टः ॥ १३४(१/२) ॥

अत्रोद्देशकः ।

राशिःषट्रेन हतो दशान्वितो नवहतो निरवशेषः ।
दशभिर्हनश्च तथा तदुणकौ कौ ममाशु सङ्कथय ॥ १३५(१/२) ॥

सकलकुट्टीकारः ।

सकलकुह्वकारस्य सूत्रम्--

भाज्यच्छेदाग्रशेपैः प्रथमहतफलं त्यज्यमन्योन्यभक्तं
न्यस्यान्ते साग्रमूवैरुपरिगुणयुतं तैस्समानासमाने ।
वर्णनं व्याप्तहारौ गुणधनमृणयोश्चाधिकाप्रस्य हरं
हत्व हत्वा तु साप्तान्तरधनमाधकाप्रान्वितं हारघातम् ॥ । १३६(१/२) ॥

अत्रोद्देशकः ।

सप्तोत्तरसप्तत्य युत शत योज्यमानमष्टांत्रशत् ।
सैकशतद्वयभक्तं को गुणकारो भवेदत्र ॥ १३७(१/२) ॥

पञ्चत्रिंशत् युत्तरषोडशपदान्येव हाराश्च ।
द्वात्रिंशद्वधिकैका युत्तरतोऽग्राणि के धनर्णगुणाः ॥ १३८(१/२)॥

अधिकाल्पराश्योर्दूलमिश्रविभागसूत्रम्--

ज्येष्ठम्नमहाराशेर्जघन्यफलताडितोनमपनीय ।
फलवर्गशेषभागो ज्येष्ठाषऽन्यो गुणस्य विपरीतम् ॥ १३९(१/२) ॥


1B गुणकारौ .