पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

84 गणितसारसङ्ग्रहः

अत्रोद्देशकः ।

नवानां मातुलुङ्गानां कपित्थानां सुगन्धिनाम् ।
सप्तानां मूल्यसम्मिथं सप्तोत्तरशतं पुनः ॥ १४०(१/२) ॥

सप्तानां मातुलुङ्गानां कपित्थानां सुगन्धिनाम् ।
नवानां मूल्यसम्मिश्रमेकोत्तरशतं पुनः ॥ १४१(१/२) ॥

मूल्ये ते वद मे शीघं मातुलुङ्गकपित्थयोः ।
अनयोर्गणक त्वं मे कृत्वा सम्यक् पृथक् पृथक् ॥ १४२(१/२) ॥

बहुराशिमिश्रतन्मूल्यमिश्रविभागसूत्रम् --

इष्टम्नफलैरूनितलाभादिष्टाप्तफलमसकृत् ।
तैरूनितफलपिण्डच्छेदा गुणयुतास्तदर्धस्स्युः ॥ १४३(१/२) ॥

अत्रोद्देशकः ।

अथ मातुलुङ्गकदलीकपित्थदाडिमफलानि मिश्राणि।
प्रथमस्य सैकविंशतिरथ द्विरग्रा द्वितीयस्य ।। १४४(१/२) ॥

विंशतिरथ सुरभीणि च पुनस्त्रयोविंशतिस्तृतीयस्य ।
तेषां मूल्यसमासस्त्रिसप्ततिः किं फलं कोऽर्घः ॥ १४५(१/२) ॥

जघन्योनमिलितराश्यानयनसूत्रम्-
पण्यहृताल्पफलोनैश्छिन्द्यादल्पन्नमूल्यहीनेष्टम् ।
कृत्वा तावत्खण्डं तदूनमूल्यं जघन्यपण्यं स्यात् ॥ १४६(१/२) ॥

अत्रोद्देशकः ।

द्वाभ्यां त्रयो मयूरास्त्रिभिश्च पारावताश्च चत्वारः ।
हंसाः पञ्च चतुर्भिः पञ्चभिरथ सारसाष्षट् च ॥ १४७(१/२) ॥