पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

88 गणितसारसारसङ्ग्रहः

कालेन व्यत्ययार्धस्स्यात्सषोडशशतं पणाः ।
तयोरर्थफले चूहि त्वं षडष्ट पृथक् पृथक् ॥ १५६ ॥

सूर्यरथाश्वेष्टयोगयोजनानयनसूत्रम्-

अरिवलास्राविलयाजनसङ्ख्यापर्याययोजनानि स्युः।
तानीष्टयोगसङ्ख्यानिन्नन्येकैकगमनमानानि ॥ १५७ ॥

अत्रोद्देशकः।

रविरथतुरगास्सप्त हि चत्वारोऽश्व वहन्ति धूर ।
योजनसप्ततिगतयः के व्यूढः के चतुयोगाः ॥ १५८ ॥

सर्वधनेष्टहीनशेषपिण्डात् स्वस्वहस्तगतधनानयनसूत्रम् –

रूपोननरैर्विभजेत् पिण्डीकृतभाण्डसारमुपलब्धम् ।
सर्वधनं स्यात्तस्मादुक्तविहीनं तु हस्तगतम् ॥ १५९ ॥

अत्रोद्देशकः ।

वणिजस्ते चत्वारः पृथक् पृथक् शौल्किकेन परिपृष्टाः ।
किं भाण्डसारमिति वलं तत्राहैको वणिकृच्छेष्ठः ॥ १६० ॥

आत्मधनं विनिगृह्य द्वाविंशतिरिति ततः परोऽवोचत् ।
त्रिभिरुत्तरा तु विंशतिरथ चतुरधिकैव विंशतिस्तुर्यः ॥ १६१ ॥

सप्तोत्तरविंशतिरिति समानसारा निगृह्य सर्वेऽपि ।
ऊचुः कि ब्रूहि सरवे पृथक् पृथग्भाण्डसारं मे ॥ १६२ ॥

अन्योऽन्यमिष्टरलसद्वयां दवा समधनानयनसूत्रम्--

पुरुषसमासेन गुणं दातव्य तांदृशTद्य पण्यभ्यः ।
शेषपरस्परगुणितं खं वं हित्वा मणेर्मूल्यम् ॥ १६३ ॥